________________
श्रीउपदेशपदे
॥ २२३ ॥
पुनरुपवासादि । लौकिकशास्त्रेषु हि येनाङ्गेन योऽपराधो विहितस्तच्छुद्धौ तदेवाङ्कं निगृह्यत इति ॥ ३८० ॥ ३ ॥
ततो हस्तच्छेदानन्तरमागमः प्रत्यावृत्तिराङ्गिरससमीपे । तेनोक्तम्- चीर्णत्रतोऽसि समाचरितप्रायश्चित्तस्त्वमिति विहिता वन्दना, भणितश्च नद्यां स्नानमाचरेति । तुः पादपूरणार्थः । तत्र च स्नातस्य 'हत्थुलुज्झण' त्ति हस्तयोरुद्रोहणं पुनरुद्गमः सम्पन्नः । तेन च 'साहण' त्ति ज्येष्ठाय साधितं निवेदितं यथा हस्तौ ममपुनरुद्भूतौ । तेनाप्युक्तं प्राणाच्छासनिःश्वासौ तयोरायामः सामस्त्येन निरोधः प्राणयामश्चित्तवृत्तिनिरोध इत्यर्थः तस्मिन् मया कृते सति तथा भावो हस्तयोस्ते सम्पन्नः ॥ ३८१ ॥ ४ ॥
'पुच्छ' त्ति पृच्छा कृता तेन किं न प्रथमं नदीनानात् तथा भावो विहितः १ स प्राह- अशुद्धितोऽद्यापि तवाशुद्धित्वात् । यतस्त्वं व्रती इत्यस्मात् स्तोकस्खलनायामपि गुरुदोषो वर्त्तते, क्रियापथ्याहरणात् चिकित्साप्रवृत्तावपथ्यासेवनदृष्टान्तात् न नैवान्यथा हस्तकर्त्तनमपि नदीस्नानमन्तरेणापैति त्रुव्यत्यनुबन्धोऽपराधलव इति त्वं मया तदनुष्ठापित इति ॥ ३८२ ॥ ५ ॥
अनुबन्धमेवाश्रित्याहः
दो य इमो एत्थं चइयो धम्ममग्गजुत्तेहिं । एयम्मि अपरिचते धम्मोवि हु सबलओ होति ॥ ३८३ ॥ रौद्रश्च दारुण एवायमशुभानुबन्धोऽत्र जगति त्यक्तव्यः परिहरणीयो निन्दा गर्ह्रादिनोपायेन । कैरित्याह- धर्ममार्ग
वानप्रस्थदृष्टान्त०
॥ २२३ ॥