________________
श्रीउपदेशपदे
विषयप्रतिभासत्वस्थानादि
॥२२१॥
विषयप्रतिभासमात्रम्-इह स्पर्शनरसनघ्राणचक्षुः श्रोत्राणीन्द्रियाणि, स्पर्शरसगन्धरूपशब्दास्तेषामर्थाः, ततो विषय- स्पेन्द्रियगोचरस्य प्रतिभासोऽवबोधः स एव केवलस्तद्गतगुणदोषविमर्श विकलो विषयप्रतिभासमानं बालस्येव शिशोरिव । अक्षरत्नविषयं अक्षश्चन्दनको रत्नं पद्मरागादिः, अक्षरत्ने, ते विषयो यस्य तत्तथाविधज्ञानमित्युत्तरेण योगः। इतिः पूरणार्थः। वचनाद् द्रव्यश्रुतयोगरूपात् । एष्वभिन्नग्रन्थिषु जनेषु ज्ञानमववोधः शब्दार्थमात्रगोचरमेव तद्गतोहापोह
शून्यं सर्वत्र जीवादौ विषये किमित्याह-अज्ञानमेव ज्ञानफलस्य हेयोपादेयविभागस्य तात्त्विकस्याभावाज्ज्ञेयमिति ॥३७॥ व अत्रैव व्यतिरेकमाह;भिन्ने तु इतो णाणं जहक्खरयणेसु तग्गयं चेव । पडिबंधम्मिवि सद्धादिभावतो सम्मरूवं तु ॥३७४॥
भिन्ने तु विघटिते तु पुनर्ग्रन्थौ । इतो ग्रन्थिभेदादनन्तरमेव ज्ञानं विशदविमर्शवशोपलब्धविशुद्धतत्त्वतया शुद्धबोधरूपं विजृम्भते । दृष्टान्तमाह-यथाक्षरत्नयोर्विषये तस्यैव शिशोरशिशुभावप्राप्तौ तद्गतं चेवाक्षरत्नविभागगोचरमेव । ननु, में भिन्नग्रन्थीनां केषांचिद् माषतुषादिसदृशानां न किञ्चिद् ज्ञानविजृम्भणमुपलभ्यत इत्याशंक्याह-प्रतिबन्धेऽपि तथाविध
ज्ञानावरणोदयाद् विघातेऽपि श्रद्धादिभावतः "तमेव सच्चं नीसंक जं जिणेहिं पवेइयं" इत्यादेः श्रद्धानस्य, आदिश
ब्दाद् गीतार्थप्रज्ञापनीयत्वस्य च भावात् तुच्छमपि ज्ञानं सम्यग्रूपमेव, परिपूर्णलाभहेतुत्वात् । यथा हि शुक्लपक्षक्षपासे पतेरतितुच्छोऽपि प्रतिपत्तिथावुज्वलतालाभः सम्यगेव, परिपूर्णतदुज्वलभावलाभस्याधिरादेव सम्पत्तिनिमित्तत्वात्।
तथा प्रकृतज्ञानमपि क्रमेण केवलज्ञानाविकलकारणभावापन्नमेव वर्तत इति ॥ ३७४॥
BANGREGNASAMERICAG*
२२१॥