________________
सूत्राधानस्य सद्बोधसम्पादक सामर्थ्याभावात्, तत्सम्पादनेन च तस्याविकलस्वरूपलाभसम्भवादिति ॥ ३७१ ॥ अमुमेवार्थ भावयतिः
|जह तम्मि तेण जोगा वज्झा संतोवि तत्तओ ए । तह दवसुत्तजोगा पायं जीवाण विष्णेया ॥ ३७२॥
यथा तस्मिन्नेव वेधपरिणामरहिते तेन गुणेन योगाः सम्वन्धा वाह्या मध्यप्रवेशविरहाद् वहीरूपास्तत्प्रयोजनार्थिभिः पुंभिः सम्पद्यमानाः सन्तोऽपि तत्त्वतः परमार्थरूपतया न नैव एते सूत्रयोगा वर्त्तन्ते, जतुप्रभृतिना श्लेषद्रव्येण गुणसंयोजने रतस्य च्छायाविनाशात्, तदन्तरेण च तस्य तत्रावस्थानस्थैर्याभावादिति । तथा द्रव्यसूत्रयोगाः प्रायो बाहु| ल्येन जीवानां विज्ञेयाः । इह द्रव्यशब्दः कारणपर्यायोऽप्रधानपर्यायश्च शास्त्रेषु प्रयुज्यते । तत्र योऽसन्निहितग्रन्थिभेदानां दूरभव्यादीनामप्रधानः सूत्रयोगः स एकान्तत एव सद्बोधानाधायकतया तत्त्वपर्यालोचने न किञ्चिदेव । यस्त्व पुनर्वन्धकमार्गाभिमुख मार्गपतितानाम्, स शुद्धबोधलाभावन्ध्यहेतुत्वाद् व्यवहारेण तात्त्विकः, यथोक्तं योगविन्दौ - " अपुनर्व| न्धकस्यायं व्यवहारेण तात्त्विक, " इत्यादि । इति हृदि समाधाय सूत्रकारेणोक्तं प्राय इति । ततो ये प्रधाना सूत्रयोगा अविरतादीनां ते निश्चयतो व्यवहारतश्च तत्त्वरूपा एव । ये तु सद्बोधहेतुभूतास्ते व्यवहारेण तात्त्विका इति ॥ ३७२ ॥ कुत एतदेवमिति चेदुच्यतेः
| विसय पडिहास मित्तं वालस्सेवक्खरयणविसयति । वयणा इमेसु णाणं सवत्थण्णाणमो णेयं ॥ ३७३ ॥