________________
SAKSARKARICKS
है। अथ शुद्धाज्ञायोगस्यैव माहात्म्यमुपचिन्वन्नाह;
एत्तो उ दिविसुद्धी गंभीरा जोगसंगहेसुंति । भणिया लोइयदिटुंतओ तहा पुबसूरीहिं ॥ ३६० ॥ 8. इतस्त्वित एव शुद्धाज्ञायोगपूर्वकानुष्ठानस्य सानुवन्धत्वाद्धेतोई ष्टिशुद्धिः सम्यग्दर्शननिर्मलता गंभीरानुद्घाटमहानिधानमिव मध्याविर्भूताद्भुतविशेषा योगसंग्रहेषु योगस्य साधुजनानुष्ठानस्य संग्रहाः संग्राहकाः सिद्धान्तालापकास्तेषु द्वात्रिंशत्संख्येपु “आलोयणा निरवलावे आवईसु दढधम्मया" इत्यादिश्लोकपञ्चकोक्तेषु, इतिः पदपरिसमाप्तौ, भणिता लौकिकदृष्टान्ततः, तथेति तत्प्रकारात् पूर्वसूरिभिः सुधर्मस्वामिप्रभृतिभिः ॥ ३६० ॥
तमेव दृष्टान्तं संगृह्णन्नाह;साएयम्मि महवलो विमल पहा चेव चित्तपरिकम्मे। णिप्फत्ति छ?मासे भूमीकम्मस्स करणं च॥३६१॥ RI साकेते नगरे 'महबल'त्ति महावलो नाम राजाऽजनि । 'विमल'त्ति विमलनामा 'पहा चेव'त्ति प्रभाकरश्चैवचित्रकरावभूताम् । ताभ्यां च चित्रपरिकर्मणि प्रारब्धे निष्पत्तिरेकेन पष्ठमासे दर्शिता । द्वितीयेन तु भूमीकर्मणः करणं चेति ॥ ३६१॥
इमामेव गाथा व्याचक्षाणो दूयेत्यादिगाथापंचकं किश्चिदधिकमाह;दूयापुच्छण रण्णो किं मझं णत्थि देव ! चित्तसभा। आदेसो निम्मवणा पहाणचित्तगरबहुमाणो३६२॥१