________________
१
श्रीउपदे
वक्तव्यं
शपदे
६९/
किञ्चित्
टीकाकाराः। समय-स्थान-जाति-धर्माः-अस्य महामन्थस्य प्रस्तुतटीकागुम्फने कृतपरिश्रमास्तु तार्किकशिरोमणिपूज्यप्रवराचार्यश्रीमन्मुनिचन्द्रसूरय एव ( यद्यपि श्रीवर्धमानाचार्येणापि टीकास्यकृताद्यापि लभ्यास्ति सा तु संक्षिप्ता गहना च इदंटीकाकारेण-टीकारम्भे"पूर्वैर्यद्यपि कल्पिता....... ......... " इत्युक्तं सैवेयम् वान्या तन्निश्चेयम् ) येषां बृहद्गच्छीयश्रीसर्वदेवसूरिपट्टालङ्कारयो यशोभद्र-नेमिचन्द्रसूरिवरयोः पट्टधरत्वेन, पूज्यश्रीयशोभद्रसूरीश्वरस्य शिष्यत्वेन च ख्यापनमस्यैव ग्रन्थस्य टीकाप्रशस्त्यां प्रत्यक्षीभूतम् ४ तदेवम्,-"बृहद्गच्छोऽतुच्छोच्छलितशुभसत्वः समभवत् ।
........... ॥१॥ ततश्च श्रीयशोभद्रनेमिचन्द्रादयो ....................... ॥ ३ ॥ प्रायस्तत्सर्वसन्तानभक्तिमान् मुनिनायकः । अभूत् श्रीमुनिचन्द्राख्यः ॥५॥” यैः प्रव्रज्यारतः केवलं सौवीरजलं मुत्कलीकृत्य पडिकृतेश्च त्यागः कृतोभूत् । वैक्रमीयद्वादशशताब्दीमाज एवेमे मुनिनायकाः, प्रमाणञ्चावेदमेव ग्रन्थटीकादि, यथा-"प्रकृता श्रीनागपुरे समर्थिताऽणहिल्लपाटके नगरे । अब्धिमुनिरुद्रसंख्ये (११७४) वहह्माने विक्रमे वर्षे ॥६॥ वि० ११५९-वर्षे-आवश्यक (पाक्षिक) सप्ततिः स्वबृहद्गुरुभ्रातृचन्द्रप्रभसूरिप्रतिबोधाय निर्मिताद्यप्रत्यक्षास्ति । मूलका
अनार्य सम्प्रदाय:-एकदा श्रीधराभिधश्रावकेण निजद्रव्यभूरिव्ययेन जिनबिम्बप्रतिष्ठाथै श्रीचन्द्रप्रमसुरिनामा खबृहद्गुरुभ्राता निमन्त्रितो, यथाभगवन् ! भस्मिन्महामहे पूज्यमुनिचन्द्राचार्यपणेन (तत्कालीनेषु क्रियाप्रवीणत्वात्तस्य) कृतार्थीकृतास्मो वयम् । श्रुत्वैतदसूयया जातविपरिणामत्वेन स्वकमानहानि मन्यमानेन तेनाचार्येण "साधूनां प्रतिष्ठादिकरणमनानुपनिकम्" इति प्ररूप्य पाक्षिकप्रतिक्रमणं पूर्णिमायां कर्तव्यमिति खमद्वारादेवतादेशव्याजेन स्वशिष्याणाम् नूतनप्ररूपणा “श्रावकै प्रतिष्ठाकाराप्या पूर्णिमायां पाक्षिकप्रतिक्रमणञ्चेति" कृता । ततः श्रीवीरनिर्वाणादेकोनत्रिंशदधिकपोडशशतात्मकेवि० एकोनपट्यधिकैकादशशतात्मके वर्षे पौर्णमीयकगच्छोत्पत्तिर्जाता। तत्प्रतिबोधनार्थमिदनन्थरचना।