________________
पादिपरीओत्तीर्ण पूर्वापर विरोधिगुण विभूषितशाश्वतप्रभावशालिन्त्रिकालाबाधितसूक्ष्मतत्त्वयथार्थस्वरूपलक्षणविभागगुणधर्मपर्यायादिप्रतिपादनामगण्यसनातनश्रीजैनदर्शनरहस्यवेदितत्वात् । स्थास्यति चैवं यावचन्द्रदिवाकरौ अर्वाचीनानां सम्यग्दर्शनादिमुक्तिपथनिश्चलावस्थानाश्रयैकत्वात्तदीयचमत्कृतिपूर्त्तिकृतिप्रत्यक्षत्वाच ।
तत्रभवतां संस्कृत-प्राकृतभा पाविशारदत्वं, बहुमुखी प्रतिभा, अस्खलत्प्रवाहा कल्पना, वस्तुस्पर्शाभिमुखी तार्किकता, स्पृहणीया दर्शनोपनिषद्वेदिता; प्रकृष्टपरिपाका च गद्यपद्यरचनाचातुरी साक्षात्कर्तुं शक्या प्रतिवाक्यं स्वीयासु कृतिषु ।
कृतयः—स्वपरसमयपारावारीणसूरिसङ्कलितग्रन्थपर्यालोचने- कैश्चित् - 'चतुर्दशशतानि प्रन्थानाम्, कैश्चित् चत्वारिंशदधिका तानि, अपरैा चतुश्चत्वारिंशदुत्तराणि चतुर्दशशतानीति प्रदर्शयाञ्चक्रिरे । भवत्वत्र मतत्रयं, तथापि चतुर्दशग्रन्थशतप्रणीतिविषये कचविवादः ? एतावत्यनन्यसदृक्ष महासङ्ख्या कत्वे प्रभुप्रणीतग्रन्थानां ऐदंयुगीनानां दुर्भाग्यविलसितानामस्मदादीनाम् शोकास्पदत्वं परमप्रमोदास्पद चावति, राजापसदा विशदधर्मद्वेपजन्यप्रयोगतः स्वभावोपनतविनाशरूपहेतुत्वादतीवन्यून सङ्ख्यात्वेनोपलभ्यमानत्वात्तेषां । नामावशेषीभूता क्षुन्नाप्युपलब्धिः तत्वपरिच्छित्तये पर्याप्तवती तत्वामृतपिपासूनाम् इत्यस्माच ।
भोदधिपतदेतज्जन्तूद्धार करणाविश्रान्तोपयोगिनां पूज्यप्रवराणां मत्सद्गुरूणामाचार्य श्रीमद्विजयमोहनसूरिवर्याणां सदादेशात्, भक्तिनशान, यत्किचित्कुतश्चित्कथञ्चित्प्रभुहरिभद्रसूरिपादानां चरित्रांशमुल्लेख्य अत, ऊर्द्धमुपलभ्यमानमपि यदवशिष्टं तत्सर्वमद्यावधि मुद्रिनागुद्रितप्राप्यमाणप्रन्थप्रस्तावनादितः पंडितहरगोविन्ददासेन लिखितचरिततश्च क्रियते प्रेरणावलोकनाय, परमावधिगतां विशदविशार - दतादिश्रियं परिचायनार्थं क मतिविकलोहम् । इति ।
1 उभ्याउभ्यप्रन्यनामावलीगचेपणान्यत्रकार्या जेनप्रन्थावलीप्रभृति पुस्तके