________________
श्रीउपदेशपदे
वकव्यं किञ्चितू
परेख तवाचष्टे-इत्यादि श्लोकः, सूरिसमीपोपगतावदातप्रव्रज्यो ज्यायसीं खसमयपरसमयकुशलतामवाप्य महत्प्रवचनवात्सल्यमव-16 लम्बमानश्चतुर्दशप्रकरणशतानि चकार, तेन हरिभद्रनाम्नाऽऽचार्येण, कीदृशेन ? इत्याह-"भवविरहं संसारोपरममिच्छतामिलषता।"
(उपदेशपद-१०३९) एवमादित एवैतेषां समकालीनवैदिक-बौद्धादिसमस्तभारतीयदर्शनपारदर्शिविद्वद्गणनायां न केवलं लब्धावकाशत्वं किन्तु, निखि-IN ललब्धवर्णखीकृतसम्मान्याग्रणीत्वम्, समवाप्तस्याद्वादमुद्रादर्शनतस्त्वविच्छिन्नत्वेनाद्ययावन्निखिलेष्वपि विश्रुतेषु कोविदजनेषु मूर्ध-13 ६ न्यतां गतत्वं महापुण्योपलब्धयशस्वित्वं च निर्विवादमेव, परमपवित्रामितगुणास्पदामेयमहिमरत्नरत्नाकरदेवगुरुधर्मत्रिपुटीशुद्धकषछेदता
१ याकिनीमहत्तरायाः प्राप्तसम्बन्धपूर्वमेकदा समयचातुरीमुपयुज्य, चाञ्चल्यमधिनयमाणः प्लवङ्गम इव विटपिशिखरान्निजयानादुत्प्लुत्य पुरःस्थितमेकं जिनेश्वरमन्दिरमध्यरुक्षत् , अवमधिक्षिप्तचक्षुश्च तदलकुर्वतीमाईती मुद्रा कथमपि लोचनगोचरीकृत्य, मदमहिलतया परमार्थमनवबुध्य भुवनगुरावपि पद्यमिदमुपहासगर्भसन्दर्भमाविरवीभवत्:
“वपुरेव तवाचष्टे स्पष्टं मिष्टान्नभोजनम् । नहि कोटरसंस्थेऽनौ तरुर्भवति शावलः"
स एवाय तया महत्तरया सूरिसमीपगमनसमये प्रागेव पन्थानमन्तरा पतन्तं तीर्थपतिविहारं नीयमानश्च भगवबिम्ब मूर्तिमन्तमिव शान्तरसं विभाव्य, विभावितयथास्थितार्थतत्वः पूर्वकृतोपहासपापमिव स्तवनपुण्येन विधाोधयितुकामः पूर्ववृत्त
"वपुरेव तवाचष्टे भगवन् वीतरागताम् । नहि कोटरसंस्थेनौ तरुर्भवति शाञ्चलः ॥ १॥ इतिचमत्कृतिकृता विपर्ययेण पर्यवीवृतत् । अभ्यष्टवीच विशेषतः-जंदिही करुणातरगियपुढा एयरस सोमं मुहं आयारो पसमापरो परियरो संतापसनासणु।
जंतूर्णा जर-जम्म-मचुहरणो देवाहिदेवो इमो देवाणं अवराण दीसइ जओ नेयं सरूवं जए ॥१॥ इत्यादिना पद्यकदम्बकेन निजमान्तरमुन्नारवारमप्रतिबध्नन् । इति ।
॥५॥