________________
॥२०८॥
**
श्रीउपदे- कारसहस्य कर्मणोऽसद्वेद्यायश कीर्तिलाभान्तरायादिलक्षणस्य स्वरूपं तु स्वलक्षणं पुनः । यदि नामैवं ततः किमि-१ कर्मविफलशपदे त्याह-परिशुद्धाज्ञायोगो यः प्राक् “परिसुद्धाणाजोगा पाएणं आयचित्तजुत्ताणं । अइघोरंपि हु कम्मं न फलइ तहभा-8 तायां शंका
वओ चेव ॥१॥" अनेन ग्रन्थेन सर्वकर्मोपक्रमकारणतया सामान्येन निरूपितः सोऽत्रानियतस्वभावे कर्मस्वरूपे,
खलुरवधारणे, भवति सफल उपक्रमरूपः स्वफलप्रसाधक इति ॥ ३४०॥ - अथ प्रस्तावादेव कर्मसंज्ञकस्य दैवस्यात्मवीर्यरूपस्य च पुरुषकारस्य समस्कंधतां दर्शयन्नाह;ई एत्तो उदोवितुल्ला विण्णेया दिवपुरिसकारत्ति । इहरा उ णिप्फलत्तं पावइ णियमेण एकस्स ॥३४१॥
इतस्त्वित एव कर्मोपक्रमाद् द्वावपि तुल्यौ सर्वकार्याणां तदधीनत्वाच्च सदृशसामथ्यौं वर्त्तते दैवपुरुषकारौ । इतिः पूरणार्थः । विपर्यये वाधकमाह-इतरथा त्वतुल्यतायां पुननिष्फलत्वमकिंचित्करत्वं प्राप्नोति नियमेनावश्यंभावेनैकस्यानयोर्मध्ये । यदि ह्येकस्यैव कार्यमायत्तं स्यात् तदा द्वितीयस्याकिश्चित्करत्वेन वन्ध्यासुतादिवद् निष्फलभावेनावस्तुत्वमेव प्रसज्यत इति ॥ ३४१॥
अथानयोरेव स्वरूपं व्याचष्टे:है दारुयमाईणमिणं पडिमाइसु जोग्गयासमाणत्तं । पञ्चक्खादिपसिद्धं विहावियत्वं बुहजणेण ॥ ३४२ ॥3॥२०॥
दारुकादीनां काष्ठोपलाम्रादीनामिदं दैवं प्रतिमादिषु प्रतिमादेवकुलपाकादिषु चित्ररूपेषु साध्यवस्तुषु योग्यतासमानं
**
GREGORRIGARBARICROGRICADGORIGk
**
*