________________
साध्वसं भयं तदर्शने किमिदमित्थमसंभाव्यं दृश्यते । एवं मीमांसयितुमारब्धे मंत्रिणोक्तं देवो जानाति तत्त्वं योऽस्या रक्षकत्वेन व्यवस्थित इति । तस्माद् विस्मयस्त्वाश्चर्यं च सर्वेषामहोऽदृष्टाऽश्रुतपूर्वमिदमिति । ततः 'तप्पुच्छ'त्ति मंत्रिपला. पजनाच तस्य राज्ञा कृता । मंत्रिणोतं-देव ! सर्वनाशस्ते पुत्राद्भविष्यतीति एतावदेव नैमित्तिकादपलब्ध
नो वेणिच्छेदादिति ॥ ३३८ ॥९॥ | इतस्त्वेतस्मादेव नैमित्तिकवचनात् किलेत्याप्तप्रवादरूपात् प्रवृत्तोऽत्र पुत्रसंगोपनेऽहं यावत्तावदेतद् नैमित्तिको संवृत्तम् । इतिरर्थपरिसमाप्तौ। अथ निगमयन्नाह-एवमुक्कनीत्याऽचिन्त्यमचिन्त्यसामर्थ्य कर्म यदित्थं विहितप्रतीकारमपि फलाय समुपस्थितम् वीर्यमपि च पराक्रमोऽपि बुद्धिमतोऽचिन्त्य एव य इत्थं समुपस्थितमपि कर्म विफलीकरोतीति ॥ ३३९ ॥१०॥ समाप्तं ज्ञानगर्भोदाहरणम् ।
आह-"अवश्यमेव हि भोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि” ॥१॥ इति है। सर्वलोकप्रयादप्रामाण्यात् कथं तत्कर्म फलदानाभिमुखमप्यदत्तफलमेव निवृत्तमित्याशंक्याह;
अणिययसहावमेयं सोवक्कमकम्मुणो सरूवं तु। परिसुद्धाणाजोगो एत्थ खल्लु होइ सफलोत्ति ॥ ३४० ॥ | इहाध्यवसायवैचित्र्यात् प्रथमतोऽपि जीवा द्विप्रकारं कर्म वघ्नन्ति । तत्रैकं शिथिलपरिणामतया फलं प्रत्यनियतरू| पम् , अन्यच्चात्यन्तदृढपरिणामनिवद्धतयाऽवश्यं स्वफलसम्पादकत्वेनावंध्यसामर्थ्य मिति । एवं कर्मणो द्वैविध्ये व्यवस्थितेऽनियतस्वभावं फलं प्रत्येतदनन्तरदृष्टान्तनिरूपितम् , सोपक्रमकर्मणः सोपक्रमस्य तत्तद्रव्यादिसामग्रीमपेक्ष्य प्रती