________________
तद्विषयगाथार्थः
श्रीउपदे
क्वेत्याह-मंजूषायां तथा पक्षस्य भोजनं पानकं च पुत्रनिमित्तं निरूपितं । तालाश्च तालकानि दत्तानि । ततो मंत्रिणा शपदे ६ अर्थ संहर स्वीकुर्विति राज्ञो भणनमकारि । अनिच्छे नृपतौ कथंचिदुपरुध्य तदानयनं मंजूषानयनं राजकुले कृतम्
॥ ३३३ ॥४॥ ॥२०७॥8
उक्तं च-देव इह मंजूषायां सर्वसारं तिष्ठति । राजा-किमनेन सर्वसारेण त्वद्व्यसनपाते सति कार्यम् ? मंत्री-तथापि ४ देवपक्षमेकं रक्षयत रक्षा कारयत । ततो राज्ञा द्वारान्यतालशीर्षमुद्रास्तथा 'अट्ट'त्ति अष्टौ दिनेऽष्टौ निशि प्राहरिका ह निरूपिताः॥ ३३४ ॥५॥ 5 एवं व्यवस्थापिते त्रयोदशे च दिवसे राज्ञो दुहितुरकस्मादेव वेणिच्छेदो जातः । इत्येतन्मंत्रिसुतात् किलेति जनप्रवा दात् स्फुटितं प्रकाशीभूतं रोदने दुहितुः स्वयमेव दृष्टे राज्ञो जितशत्रोर्महाकोपः समजनीति ॥ ३३५॥ ६॥ ..
भणितं च तेन यथा घातयत तक मंत्रिसुतमथवा किमनेनैकेन घातितेन सर्वाण्येव मंत्रिमानुषाणि दहत भस्मीकुरुत । येनोन्मत्तकान्येतानि वर्तन्त इति । ततः किंकरणमो मंत्रिगृहे । ग्रहणं कुटुंबस्य प्रारब्धं । भण्डना च मंत्रिपरिवारेण सह लग्ना । मंत्रिणोक्तं प्रेक्षामहे तावद्देव? इति ॥ ३३६ ॥७॥ ___ दृष्टे चात्र राज्ञि मंत्री प्राह-योगाद् मञ्जूषासम्बन्धात् समुद्घाट्येत्यर्थः। तत्त्वं मत्पुत्रकृतोऽन्यकृतो वाऽयमनर्थ इत्येवं
लक्षणं जानीहि समववुध्यस्व स्वात्मनैव । ततो गतो राजा मञ्जषोद्धाटनार्थम् । दृष्टायां च तस्यां मुद्रासंवादे उद्धाटने द्र कृते सति निरूपणानि भालना यावत् क्रियते, तावत् क्षुरिकायुक्तया वेण्या समुपलक्षितो मंत्रिसुतो दृष्टः॥३३७॥८॥
tanten