________________
मनहेयमेमो सुरक्लिओ कुणइ कज्जमिणं ॥ ६४ ॥ देव ! अचिंतं कम्मं कयपडियारंपि जं फलइ एवं । चरियंपि बुद्धिमंताण हरड़ जं पसरमेयस्स ॥ ६५ ॥ लद्धावसरं कत्थइ वलियं कम्मं तहा पुरिसयारो । एवं चियपरिणयवणीण जारिसं चरियमेएसिं ॥ ६६ ॥ यथोक्तम्- “कत्थइ जीवो वलिओ कत्थइ कम्माई होंति वलियाई । कत्थइ धणिओ वलवं धारओ कत्थइ बलवं ॥ १ ॥” एवं स णाणगव्भो नियनामसमाणचेट्ठिओ होउं । पत्तो सिरिं तह जसं ससंककिरणुज्जलं लोए ॥ ६७ ॥
अथ संग्रह्गाश्रागमनिका; - वेसाली नगरी, जितशत्रू राजा, सचिवस्तु ज्ञानगर्भस्तस्य । अन्यदा सभास्थस्य | राज्ञो 'नेमित्तागम' त्ति नैमित्तिकागमने पृच्छा राज्ञोऽभूत् । 'अत्थक्कत्थाणे' इति अतिकुतूहलपरतया अनवसरे आस्थाने सभायां किं सुखं दुःखं वा कस्यापूर्वं भविष्यतीति ॥ ३३० ॥ १ ॥
नैमित्तिकः प्राहः - मंत्रिणो मारीपतनं । राजा-कदा ? नैमित्तिकः- पक्षादारत इति । ततस्तूष्णीका वद्धमौनाः सर्वेऽपि राजादयो बभूवुः । 'मं तिनिग्गम'त्ति तत आस्थानाद् निर्गमे कृते मंत्रिणा काले प्रस्तावे नैमित्तिकाद्दानमकारि स्वगृहे ॥ ३३१ ॥ २ ॥
ततः ‘पइरिक्के' एकान्ते पृच्छा कथमियं मारी पतिष्यतीति । नैमित्तिकः - सुतदोषात् प्रत्ययस्तव कुस्वम इति । ततः पूजा नैमित्तिकस्य, वारणा प्रकाशननिषेधरूपा च कृता । 'संवायत्ति' संवादे स्वप्नस्य 'पुत्त मालोय'त्ति पुत्रेण सहालोचनं विधाय निरोधः कृतस्तस्य ॥ ३३२ ॥ ३ ॥