________________
गोऽत्र प्रस्तुते कर्मोपक्रमे पुरुषकारो, न पुनरन्यो धावनवल्गनादिरूपः । इति पूरणार्थः । एतत् तद् दुर्विज्ञेयं यद् मोहबहले जीवलोके प्रायेणेत्यर्थः प्रचारिण्ययमेव शुद्धाज्ञायोगो विवेकिना जनेनानुष्ठीयते, न पुनर्गतानुगतिकलक्षणा लोकदेर तथैप एव विभागोपलक्षणारूपो ज्ञान विषयोऽपि गहनपदार्थविवेचकतया ज्ञानस्य निश्चयतः स्वरूपलाभात् । पठ्यते च 'बुद्धेः फलं तत्त्वविचारणं स्याद्'इति। इदमुक्तं भवति यः खलु भिन्नग्रन्थेजीवस्य परिशुद्धाज्ञालाभः प्रादुर्भवति स औदयिकभावनिरोधादात्मवीर्यमुच्यते । एप एव च पुरुषकारः, सर्वकर्मविकारविलक्षणेन मोक्षेण कथञ्चिद् एकात्मभावादस्य अत एवैप एव च कर्मोपक्रमहेतुरिति निश्चीयते, अनेनैवोपक्रान्तानां कर्मणां पुनरुद्भवाभावात् । दुर्विज्ञेयश्चायं मूढमतीनाम् । अत एव च प्रौढज्ञानविषयतया व्यवस्थित इति ॥ ३२८॥
साम्प्रतमुक्तमर्थ प्रसाधयन् दृष्टान्तमाह,आहरणं पुण एत्थं सवणयविसारओ महामंती। मारिणिवारणखाओ णामेणं नाणगब्भोत्ति ॥ ३२९ ॥ | आहरणं दृष्टान्तः पुनरत्र पुरुषकारात् कर्मोपक्रमे सामान्येन साध्ये सर्वनयविशारदः सर्वेषामान्वीक्षिकीत्रयीवा दण्डनीतिलक्षणानां नयानां विचारणे न विचक्षणो महामंत्री सर्वराज्यकार्यचिन्ताकरत्वेन शेषमंत्रिणामुपरिभागवर्ती मारीनिवा- || रणाख्यातः सहसैव समुपस्थितसर्वकुटुंवमरणस्य निवारणात् प्रसिद्धिमुपगतो नाम्नाऽभिधानेन प्रागनामान्तरतया रूढोऽपि ।
ज्ञानगर्भ इति। इहान्वीक्षिकी नीतिः जिनजैमिन्यादिप्रणीतन्यायशास्त्राणां विचारणा, त्रयी सामवेदऋग्वेदयजुर्वेदलक्षणो, | 8वार्ता तु लोकनिर्वाहहेतुः कृपिपाशुपाल्यादिवृत्तिरूपा, दण्डनीतिस्तु नृपनीतिः सामभेदोपप्रदाननिग्रहरूपेति ॥ ३२९ ॥ ॥
RECOGNINGRAHAMACHARMA