________________
श्रीउपदे
सदृष्टान्तेन
शपदे
॥२०३॥
ए! विशिष्टज्ञानातिशययुक्तपुरुषविशेषविषयत्वात् । किमित्याह-निश्चयनयभावयोगाद् निश्चयनयेन निश्चयनयप्रवृत्त्या यो
भावः साध्यरूपतामापन्नः पदार्थः तेन योगाद् घटनात् । तथाहि-कृषीवलादयो बीजशुक्ष्यादिपूर्वकमसति प्रतिबन्धे नियमादितोऽभिलषितफललाभः सम्पत्स्यत इति व्यवहारतो निश्चितोपायाः प्रवृर्तमानाः प्रायेण विवक्षितफललाभभाजो भवन्तो दृश्यन्त इति ॥ ३२६ ॥ ___ अथैनमेवार्थ प्रकृते योजयति;एवमिहाहिगयम्मिवि परिसुद्धाणाउ कम्मुवकमणं। जुज्जइ तब्भावम्मि य भावारोग्गंतहाभिमयं ॥३२७॥
एवं यथाऽजीर्णदोषस्य इह जने निदानपरिहारादुपक्रमोऽध्यक्षसिद्धः समुपलभ्यते, तथाऽधिकृतेऽप्याज्ञामाहात्म्यख्यापने 3 वक्तुमुपक्रान्ते परिशुद्धाज्ञातः सर्वोपाधिशुद्धसम्यग्दर्शनादिमोक्षमार्गाराधनात् कर्मोपक्रमणं ज्ञानावरणादिदुष्टादृष्टनष्टभावापादनं युज्यते, जलानलयोरिवानयोरनिशं विरोधात् । तद्भावे च कर्मोपक्रमसद्भावे पुनर्भावारोग्यं सर्वव्याध्यधिकसंसाररोगक्षयात् तथा क्षपकश्रेण्यादिलाभप्रकारेणाभिमतं सर्वास्तिकप्रवादिसम्मतं सम्पद्यत इति ॥ ३२७ ॥
अथाज्ञायोगमेव तथा तथा स्तुवन्नाह;एयमिह होइ विरियं एसो खलु एत्थ पुरिसगारो त्ति । एवं तं दुण्णेयं एसोच्चिय णाणविसओवि ॥३२८॥
एतदिह कर्मोपक्रमे भवति वीर्यमात्मसामर्थ्यम् । यः प्रागुक्तः परिशुद्धाज्ञायोगस्तथैष खलु एष एव परिशुद्धाज्ञायो
RSSHIROPAS
॥ २०३!!
ब