________________
भुक्तानाजरणलक्षणे सति; आमादयश्चाजीर्णभेदाः, यथोक्तं-"अजीर्णप्रभवा रोगास्तच्चाजीर्ण चतुर्विधम् । आमं विदग्धं । विष्टब्धं रमशेषं तथैव च ॥१॥" तथा परिहारादुपस्थितरोगनिदानपरित्यागाद् आरोग्यं नीरोगता एकस्य जायते ।। द्वितीयस्य त्वन्यस्यातोऽज्ञानादिदोपादन्यथा निदानापरिहाराद् व्याधिभावस्तूपस्थितव्याधिसमुद्भव एव सम्पद्यते । यो माहियन्निमित्तो दोपः स तत्प्रतिपक्षसेवात एव निवर्त्तते, यथा शीतासेवनादुत्पन्नं जाड्यमुष्णसेवात इति ॥ ३२५॥ | ननु कारणभेदपूर्वकः कार्यभेद इति सर्वलोकसिद्धो व्यवहारः। तत् कथं भोजनादिनिमित्ततुल्यतायामपि द्वयोरयं । |निष्फलमफलभावरूपो व्याधेर्विशेषः सम्पन्न इत्याशंक्याह;ववहारओ णिमित्तं तुल्लं एसोवि एत्थ तत्तंगं । एत्तो पवित्तिओ खलु णिच्छयनयभावजोगाओ॥३२६॥5
व्यवहारतो व्यवहारनयादेशाद् बहुसदृशतायां भावानामेकत्वप्रतिपत्तिरूपात् , निमित्तं भोजनादिव्याधेस्तुल्यं समाहैन, न तु निश्चयतः, तस्य तुल्यकार्यानुमेयत्वेनातुल्यफलोदये कथञ्चिदभावात् । तथा चैतन्मतं-"नाकारणं भवेत् ।
कार्य, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात् कार्यकारणयोः क्वचित् ॥१॥” तत्र सोपक्रमनिरुपक्रमकर्म-15 माहाय्यकृतो व्याधिनिदानानामन्तरंगो भेदो विद्यते, यतोऽयं व्याधिः सफलनिष्फलभाव इति । न च वक्तव्यं व्यवहारस्यासांवृतरूपतया असंवृतत्वात् कथं तन्मताश्रयेण प्रकृतव्याधी निमित्ततुल्यतोऽष्यत इति । यत एषोऽपि व्यव
हारो न केवलं निश्चयोऽत्र जगति तत्त्वाङ्गं तात्त्विकपक्षलाभकरणं वर्तते। कुतः। यतः इतो व्यवहारनयादनन्तरमेवोभक्तरूपाद् या प्रवृत्तिः कार्यार्थिनां छद्मस्थानां चेप्टा, खलुरवधारणे, ततस्तस्या एव न तु निश्चयपूर्विकाया अपि, तस्या
RECASICALCAREERS
Sऊऊऊर
+MAHALE