________________
श्रीउपदेशपदे
॥ २०२ ॥
तथा परिशुद्धाज्ञाभ्यासात् सुप्रणिहितमानसानामत्यन्तनिर्गुणभवभ्रान्तिपरिश्रान्तानां जन्तूनां दारुणपरिणाममिथ्यात्वादिनिमित्तोपात्तमप्यशुभकर्म न स्वफलमुपधातुं समर्थ स्यादिति ॥ ३२३ ॥
एतदेव प्रतिवस्तूपमया भावयतिः
वाहिम्मि दीसइ इमं लिंगेहिं अणागयं जयंताणं । परिहारेतरभावा तुल्लनिमित्ताणवि विसेसो ॥ ३२४ ॥
व्याधौ कुष्ठज्वरादौ समुद्भवितुकामे दृश्यतेऽध्यक्षत एवावलोक्यत इदमफलत्वम् । कुतः । यतः, लिङ्गैः रोगोत्पत्तिगमकैः शरीरास्वास्थ्यादिभिरुपस्थितैर्ज्ञातैश्च सद्भिरनागतं रोगोत्पत्तेः प्रागेव यतमानानामतियत्नं कुर्वताम् । कुत इत्याह-परिहारेतरभावात् । परिहारभावात् पिशितघृतादीनामुत्पित्सुरोगनिदानभावापन्नानामनासेवनात् । रोगनिदानपरिहारश्चैवं पठ्यते, यथा-"वर्जयेद् द्विदलं शूली कुष्ठी मांसं ज्वरी घृतम् । नवमन्नमतीसारी नेत्ररोगी च मैथुनम् ॥१॥" इतरभावादन्येषां केषांचिदनागतमयतमानानां तन्निमित्तापरिहारात् । उभयेषामपि कीदृशानां तुल्यनिमित्तानामपि प्राकू समान रोगोत्पादककारणानां विशेष उद्भवानुद्भवरूपः प्रत्यक्षसिद्धो वर्त्तत इति ॥ ३२४ ॥ एनमेवार्थं विशेषेण भावयतिः -
एगम्म भोयणे भुंजिऊण जाए मणागमजिपणे । सइ परिहारारोग्गं अउष्णहा वाहिभावो उ ॥ ३२५॥ एकस्मिन्नभिन्नजातीये भोजने सूपोदनादौ 'भुंजिऊण'त्ति भुक्त्वा भुक्ते सतीत्यर्थः । जाते समुत्पन्ने मनागू ईषदजीर्णे
धर्मवीजशुद्धिभा
वना
॥ २०२ ॥