________________
एवं णाऊण इमं परिसुद्धं धम्मवीयमहिगिच्च । बुद्धिमया कायवो जत्तो सति अप्पमत्तेण ॥ ३२२ ॥
एवं मेघकुमारादिज्ञातानुसारेण ज्ञात्वेमं धर्म्मप्रतिवन्धं दारुणपरिणामं परिशुद्धं सर्वातिचारपरिहारेण धर्म एव श्रुत| चारित्राराधनारूपो वीजमनेक कल्याणकलापकल्पपादपस्य प्ररोहहेतुर्धर्मवीजं तदधिकृत्यापेक्ष्य विधेयतया बुद्धिमता निरूपित बुद्धिरूपधनेन पुंसा कर्त्तव्यो यल आदरः, सदा सर्वावस्थास्वपि, अप्रमत्तेनाज्ञानसंशय मिथ्याज्ञानादिप्रमादाष्टकपरिहारवता । न ह्यशुद्धवीजवतारः कृषीवलाः कृतयत्ना अपि कृषावविकलं फलं कदाचिदुपलभन्त इति । यथा-ते तच्छुद्धावधिकं यलमवलम्वन्ते, तथा प्रस्तुतधर्मवीजशुद्धौ भवभीरुभिर्भव्यैरादरपरैर्भाव्यमिति भावः ॥ ३२२ ॥ अथ धर्मवीजशुद्धेः साक्षादेव फलमभिधित्सुराहः
परिसुद्वाणाजोगा पाएणं आयचित्तजुत्ताणं । अइरोद्दपि हु कम्मं ण फलइ तहभावओ चेव ॥ ३२३ ॥
परिशुद्धाज्ञायोगात् सर्वातिचारपरिहारेण धर्म्माराधनात् प्रायेणात्यन्तनिका चनावस्थाप्राप्तं कर्म परिहृत्येत्यर्थः, आत्मचित्तयुक्तानां आत्मन्येव परवृत्तान्तेष्वन्धवधिरमूकभावापन्नतया यद् मनश्चित्तं तेन युक्तानां बहिर्व्याक्षेपपरिहारेण सदा आत्मन्येव निक्षिप्तशुद्धचित्तानामित्यर्थः, अतिरौद्रमपि नरकादिविडम्वनादायकत्वेन दारुणमपि कर्म ज्ञानावरणादि न | नैव फलति स्वविपाकेन पच्यते । कुत इत्याह-तथा भावतश्चैव तत्प्रकारस्वाभाव्यादेव । यथा ह्याम्रतरवः समुद्गत निरन्तर| कुसुमभरभ्राजिष्णुशाखासंदोहा अपि वहलविद्युदुद्योतपरामृष्टपुष्पाः निष्फलीभावं दर्शयन्ति, तथास्वाभाव्यनियमात्,