________________
समाप व्याधिरासीत । तस्मादेवं निःसंगरूपोऽटामि ग्रामनगरादिषु यापनाहेतोवाधानिवृत्तिनिमित्तम् । 'एसोवि हित्ति एपोऽपि यद्येवमहमिवादति ततः स्फुटयामि व्याधिमित्येवमुक्ते प्रतिपत्तिरङ्गीकारोऽनेन कृतः॥ ३१४॥३१॥
ततश्चत्वरं नीत्वा मातृस्थानं मायारूपं कृतम्, यथा-चत्वरपूजा तत्र तस्योपवेशनं तथाविधमंत्रौषधादिप्रयोगः, ततो व्याधिनिर्गमनं प्रत्यक्षरूपस्य दर्शितं तत्क्षणमेवावेदना वेदनापगमः। ततश्च प्रगुणः समजनि । ततो 'असमय'त्ति
इत्यात्मनि साधुविकुर्वणं साधुरूपकरणम् । "उवाय मोत्ति उपायोऽयमिति कृत्वा द्रव्यप्रव्रज्या-15 लिङ्गग्रहणरूपा तस्य तदा तेन दत्ता ॥ ३१५ ॥३२॥
सुरेच स्वस्थानं गते तत्त्यागात् प्रव्रज्या परित्यागाद् गृहमागमोऽनेन कृतः। एवमनेन विधिना आदिप्रतिपत्तिरादाविय कलवाद्यङ्गीकाररूपा जाता । तथा पुनर्द्वितीयवारं स एव व्याधिरुत्पादितः। विद्रावणाः स्वजनाः। वैद्यस्य सवररूपधारिणः 'पासणे' इति दर्शने सैव प्रज्ञापना ॥ ३१६ ॥ ३३ ॥ ___ एवं प्राग्वत् पुनरपि प्रव्रज्या दत्ता, भणितं च नवरं मया सममटत्वेवं प्रतिपन्ने तेन 'गोणत्तगहणं' कारितो गोणतश्च तच्छस्त्रकोशः। निर्गमस्ततः स्थानात् । उक्तश्च सदापि मत्तुल्या क्रिया कर्त्तव्या ॥ ३१७॥३४॥
अन्यदा देवेन 'गामपलित्तविउद्यण'त्ति ग्रामस्य प्रदीप्तस्य विकुर्वाणमुन्मार्गे गमनं च, यक्षपूज्यपतनं च यक्षस्य पूज्यस्य सतः पतनं, कुडगत्यागी सूकरो विष्ठालग्नो दर्शितः । तथा, कूपे गोर्वलीवईस्य 'जुंजम'त्ति जुंजमाख्यचारिपरिहारेण दर्वाभिलापविषयी कृता दर्शितेति ॥ ३१८॥ ३५॥