________________
श्रीउपदेशपदे
REGAR
गमनं सुरस्य स्वस्थाने च्यवने सत्युत्पादश्चयवनोत्पादः । आमेष्वकालदोहदो जनन्याः समजनि । तदसम्प्राप्तौर
सङ्ग्रह
| गाथार्थः र कृशता । ततः शंका मूकस्य विमर्शो जातः। किमयं स उत्पन्नोऽन्यो वेति । निश्चितं च तेन, यथा सत्या एव जिनाः। ततोऽसौ सुरजीवो गर्भतयोत्पन्न इति चिन्तारत्नात् सकाशात् तसिद्धिरकालदोहदसिद्धिः॥३१० ॥२७॥
निष्पत्तिर्गर्भस्य । प्रसवश्च समये । नमस्कारपीठकः प्रतीतरूपेण नमस्कारेण युक्तः पीठको नवजातशिशुयोग्यपातव्यवस्तुरूपो दत्तः। अर्हदत्तो नामेति कृतम् । अर्हतां भगवतां पुनः पुनर्नामस्मरणार्थम् । 'चेइयसाहूनयण'त्ति चैत्यानां साधूनां च समीपे नयनं तस्य यदा क्रियतेऽभक्तिरटनेऽबहुमानाद् आक्रन्दने परिज्ञातधर्मनिस्पृहचित्तस्य सम्पन्नयौवनस्य च 'चउकन्ना' इति पितृभ्यां चतसृणां कन्यकानां परिणयनं कारितः॥ ३११ ॥ २८॥ ___ साधनं च मूककेन प्राच्यवृत्तान्तस्य कृतम् । अप्रत्ययनमश्रद्धानमहद्दत्तस्योत्पन्नम् । ततो वैराग्याद् मूककप्रव्रज्या ६ जाता । मृतस्य च देवलोके स्वर्गलाभः समजनीति । तत्रस्थस्य च तस्यावधेः प्रयोजनम् । 'जाणण'त्ति ज्ञातं च यथा है
गाढं निबिडं 'मिच्छति' मिथ्यात्वमित्येतस्मात् कारणात् संक्लेशो मार्गाश्रद्धानरूपः सम्पन्नोऽस्य ॥ ३१२॥ २९॥ ___ततः प्रतिबोधार्थ व्याधिविधानं जलोदरादिमहारोगकरणम् । तस्य सम्पन्नव्याधेवैद्याः पितृभ्यामाकारिताः तैश्च प्रत्या४ ख्यानं तदनादरणीयतालक्षणं कृतमिति वेदना महती जाता। निर्विण्णेनाग्निः साधयितुमारब्धः। देवस्य 'सवरघोसण'त्ति
॥२० ॥ सवररूपकरणं, घोषणा च यथाहं सर्वव्याधिवैद्यः। दृष्टोऽसौ तेन, भणितं च रौद्रोऽयं व्याधिः प्रयत्नेनापगमिष्यति ॥ ३१३ ॥ ३० ॥
LSHAR