________________
संग्रहगाथार्थः
श्रीउपदे-15 पस्य साधोर्यः कोपस्तत्र सति तेनोक्तं न नैव एवं विषमतालतायां नृत्यामि, विडम्बनारूपत्वाद् अस्य नृत्यस्य । ततः शपदे कर्षणे हस्तपादादिशरीरावयवेषु तस्य ताभ्यां क्रियमाणे यतनयात्यन्तपीडापरिहारेण यन्नियुद्धं बाहुयुद्धं तद्विधाय यान
तेन चित्रलिखिताविव तौ कृतौ। ततः साधोस्ततः स्थानाद् गमोऽपसरो जातः॥ २९२ ॥९॥ ॥१९८॥ 'पीडतराय'त्ति पीडा तच्छरीरगताऽन्तरायश्च भोजनादिविघ्नरूपोऽनयोर्वर्तत इति परिभाव्य न नैवाटनं कृतं भिक्षानि
मित्तं तेन साधुनेति, किन्तु 'पइरिके'त्ति एकान्तेऽवस्थानं कृतम् । तत्र तस्य चिन्ता-कथमिदं मच्चेष्टितं सुंदरपरिणाम
स्यादिति । तत्काले च शोभननिमित्तमङ्गस्फुरणादि किश्चिन्निमित्तं सुन्दरं प्रवृत्तम् । ततो भविष्यति चरणमिति धृतियो3. गस्तस्य सम्पन्नः । स्वाध्यायकरणं तु स्वाध्यायकरणमेव प्रारब्धम् ॥ २९३ ॥ १०॥ . .
राज्ञः समरकेतोः कुमारावेदनं परिजनेन कुमारवृत्तान्तकथनं कृतम् । स च गुरुमूलागमनं विधाय क्षमस्वापराचं कुमारकृतमित्युक्तवान् । तं प्रति गुरुराह-न वि जाने न वेद्मि साधुभिर्यथा स्तम्भितौ कुमारौ ॥ २९४ ॥११॥
तदनुपृच्छा कृता साधूनां, तैरप्यूचे-नास्माकं केनचित् कस्यापि किञ्चित्कृतम् । ततो राजा आह-नैतत्कुमारस्तम्भनमन्यथा साधून विहाय भदन्त कल्याणकारक!। तत आगन्तुके साधौ शंका जाता, मा तेन कृतं कुमारस्तम्भनमिति ।
ततः साधनं निवेदनं प्राघूर्णकसाधो राज्ञः कृतं गुरुणा। ततो राज्ञा गमनं तस्य साधोः समीपे कृतम् । ततश्च ज्ञानं प्रत्य18 भिज्ञानं समजनि ॥ २९५ ॥ १२॥
. ब्रीडितो लज्जावान् राजा जातः । ततोऽनुशासने मुनीनां शिक्षणे कृते मिथ्यादुष्कृते च तेन दत्ते कुमारविज्ञापन
NAGARIKAAGAAAAAAGAR
CALIGROSAS