________________
SARAGR
७/ निग्रहीतुमसौ मम युज्यते । तथा चैव कुमारयोरप्यनुकम्पा दया कर्तुमुचिता । अक्ति मे शक्तिः सामर्थ्य प्रस्तुतनि
ग्रहे ॥ २८८ ॥५॥ PI 'गुरुपुच्छ'त्ति गुरुमापृच्छयेत्यर्थः । गमनमुज्जयिनी प्रति । सम्प्राप्तिश्च । तत्र प्रवेशश्च साधूपाश्रये । कृता च वन्दना
दिका उचिता स्थितिः। सति काले भिक्षाभ्रमणरूपे उग्राहणं पात्रप्रगुणीकरणरूपं यदा तेनविहितं तदा साधुभिः 'अच्छणं| दाखत्ति आसनमेव आदध्वं यूयमित्येवं प्रज्ञापनं कृतम् । तेन चोकमहमात्मलब्धिको न परलब्धिमुपजीवामि ॥२८९॥६॥
ततः स्थापनाकुलानि प्रतीतानि । आदिशब्दाद् दानश्रद्धालुश्रावकसम्यक्त्वदृष्टादिकुलग्रहः । यतः पठ्यते-"दाणे / अभिगमसद्दे सम्मत्ते खलु तहेव मिच्छत्ते। मामाए अचियत्ते कुलाइं जयणाए दाइंति ॥१॥ सागारिवणिगसुणए गोणे पुत्ते दुग्गंछियकुलाई । हिंसागं मामागं सवपयत्तेण वजेजा ॥२॥" एवमुपलब्धस्थापनादिकुलविभागः स साधुः प्रत्यनीक-14 गृहे प्रविष्टः, भणितं च धर्मलाभ इति । ततोऽन्तःपुरिकासंज्ञानमन्तःपुरिकाभिस्तस्य संज्ञा अकारि यथापसरेति . 'अवहेरि'त्ति अवधारणा तेन कृता । धर्मलाभशब्दश्रवणे कुमारकागमनं तत्पार्थे सम्प्रवृत्तम् ।। २९० ॥७॥ .. | ताभ्यां च प्रथमं 'दुवारघट्टण'त्ति द्वारकपाटपुटस्थगनं कृतम् । 'वंदण णचाहि'त्ति वंदितोऽसौ, भणितश्च नृत्य त्वं तत्रेत्येवं भणिते सति स आह-कथं गीतवादितेन विना 'नृत्यते' इति गम्यते । ततो भणतस्तौ कुमारौ-आवामिदं गीतादि कुर्व इति ॥ २९१ ॥८॥ 'आरम्भविषमतालम्' आरम्भे एव विषमो विसंस्थुलस्तालो गीतवादितसंयोगरूपो यत्र तत्तथा नृत्यं प्रवृत्तम् । तदाऽको
ACK