________________
श्रीउपदेशपदे
करब
श्रीअर्हद्दत्सोदाहरणम्
॥१९७॥
है। लंतसद्धा समनिओ बहुविहं सुयमहीओ । अपुवापुवअभिग्गहेसु निच्चं चिय पसत्तो ॥ १४६ ॥ इय सामन्नं काउं अण-
नसामन्नमंतिमे काले । संलिहियकसायतणू णिस्सल्लो सबहा होउं ॥ १४७ ॥ सुद्धसमाहाणपरो मरि वेमाणिओ तओ जाओ। तत्थवि चेइयजिणवंदणाइवावारवद्धरसो ॥ १४८॥ ठिच्चा चइत्तु तत्तो महाविदेहे कुले बिसालम्मि । आराहिय जिणधम्मो संपत्तो सासयं ठाणं ॥ १४९ ॥ इति ॥ __अर्थतत्संग्रहगाथाक्षरार्थः-एलपुरं नाम नगरमासीत् । तत्र जितशत्रू राजा, पुत्रोऽपराजितश्च युवराजो वभूव । ६ द्वितीयश्च पुत्रः समरकेतुर्नाम । तस्य च कुमारभुक्तावुज्जयिनी समजायत ॥ २८४ ॥१॥ अन्यदा च प्रत्यन्तविग्रहजये | से निजदेशसीमापालभूपालस्य विग्रहे व्युत्थाने सति यो जयः परिभवस्तस्मिन् समुपलब्धे । आगच्छतः स्वदेशाभिमुख 'नवरि'त्ति नवरं कैवलं युवराजस्यापराजितस्य राधाचार्यसमीपे धर्माभिव्यक्ती सत्यां निष्क्रमणं व्रतमभूत् ॥ २८५ ॥२॥ __ अन्यदा च 'तगराविहार'त्ति तगरा नाम नगरी, तस्यां राधाचार्याणां विहारः सम्प्रवृत्तः। प्रस्तावे चोजयिनीतस्तत्र तगरायामार्यराधसाधूनामागमनं समजनि । विहिता प्रतिपत्तिः प्राघूर्णकोचिता विहारपृच्छा उचितकाले समुचितसमये
सन्ध्यादौ कृता सूरिभिः ॥ २८६ ॥३॥ छ भणितं च तैः राजपुरोहितपुत्रावभद्रको, तत्कृतस्तु तत्कृत एवोपसर्गः साधूनाम् । शेषस्त्वन्नपानादिशुद्धिस्तल्लाभादिरूपो निरुपसर्गों बाधाविरहितस्तत्रोजयिन्यां विहारः सदा सर्वेषु प्रावृडादिकालेषु यतीनां साधूनामिति ॥ २८७ ॥४॥
ततोऽपराजितस्य चिन्ता संजाता । प्रमत्तता कुमारोपेक्षालक्षणा भ्रातुर्मम महादोषो बोधिलाभघातकत्वात्, तद् !
॥१९७॥
06