________________
विनिर्दिष्टाः प्रमाणयत्कृता अपि ॥ १४ ॥ वास्तव्य साधुभिर्दृष्टो यथादृष्टं च साधितम् । सूरेर्विजयसेनस्य तेनापि गदितं ततः ॥ १५ ॥ स एप सूकरो भद्रास्त एते वरहस्तिनः । स्वप्ने च सूचिता ये वो न विधेयोऽत्र संशयः ॥ १६ ॥ तः प्रभातेऽथ तच्छिष्या बोधितास्तूपपत्तिभिः । यथैवं चेष्टितेनायमभव्य इति बुद्ध्यताम् ॥ १७ ॥ त्याज्यो वोऽयं यतो घोरसंमारतरुकारणम् । ततस्तैरप्युपायेन क्रमेणासौ विवर्जितः ॥ १८ ॥ ते चाकलङ्कसाधुत्वं विधायाथ दिवं गताः । ततोऽपि प्रच्युताः सन्तः क्षेत्रेऽत्रैव च भारते ॥ १९ ॥ श्रीवसन्तपुरे जाता जितशत्रोर्महीपतेः । पुत्राः सर्वेऽपि कालेन ते | प्राप्ता यौवनश्रियम् ॥ २० ॥ अन्यदा तान् सुरूपत्वात् कलाकौशलयोगतः । सर्वत्र ख्यातकीर्त्तित्वात् सर्वानेवं न्यमत्रयत् ॥ २१ ॥ हस्तिनागपुरे राजा कनकध्वजसंज्ञितः । स्वकन्याया वरार्थाय तत्स्वयंवरमण्डपे ॥ २२ ॥ तत्रायातः स तैर्दृष्टो गुरुरङ्गारमर्दकः । उष्ट्रत्वेन समुत्पन्नः पृष्ठारूढमहाभरः ॥ २३ ॥ गलावलम्बितस्थूलकुतुपो पेशलं रसन् । पामनः सर्वजीर्णाङ्गो गतत्राणोऽतिदुःखितः ॥ २४ ॥ तमुष्ट्रमीक्षमाणानां तेषां कारुण्यतो भृशम् । जातिस्मरणमुत्पन्नं सर्वेषां शुभभावतः || २५ || देवजन्मोद्भवज्ञानज्ञातत्वात्तैरसौ स्फुटम् । करभकः प्रत्यभिज्ञातो यथाऽयं वत नो गुरुः ॥ २६ ॥ ततस्ते चिन्तयामासुर्धिक संसारस्य चेष्टितम् । येनैष तादृशं ज्ञानमवाप्यापि कुभावतः ॥ २७ ॥ अवस्थामीदृशीं प्राप्तः संसारं च भ्रमिष्यति । ततोसौ मोचितस्तेभ्यस्तत्स्वामिभ्यः कृपापरैः ॥ २८ ॥ ततस्तदेव ते प्राप्य भवनिर्वेदकारणम् । कामभोगपरित्यागात् प्रत्रज्यां प्रतिपेदिरे ॥ २९ ॥ ततः सुगतिसन्तानान्निर्वास्यन्त्यचिरादमी । इतरः पुनरभव्यत्वाद् भवारण्ये भ्रमिष्यति ॥ ३० ॥ इति ॥