________________
श्रीउपदेशपदे
॥ १७९ ॥
अंगारमद्दगो च्चिय आहरणं तत्थ पढमपक्खम्मि । गोविंदवायगो पुण बीए खलु होति णायवो ॥ २५८ ॥ अङ्गारमर्दक इहाज्ञाविचारपक्षे आहरणं तयोर्द्वयोर्द्रव्यशब्दयोः प्रथमपक्षेऽप्रधानार्थतालक्षणे । गोविन्दवाचकः पुनद्वितीये प्रधानार्थतालक्षणे । खलु पूर्ववत् । भवति ज्ञातव्य उदाहरणतयेति ॥
इहाङ्गारकामर्द कोदाहरणमेवं वाच्यम्: - सूरिर्विजय सेनाख्यो मासकल्पविहारतः । समायातो महाभागः पुरे गर्जनका - भिधे ॥ १ ॥ अथात्र तिष्ठतस्तस्य कदाचिन्मुनिपुङ्गवैः । गवां विसर्गवेलायां स्वप्नोऽयं किल वीक्षितः ॥ २ ॥ कलभानां शतैः शूरैः सूकरः परिवारितः । पञ्चभिर्भद्रजातीनामस्मदाश्रयमागतः ॥ ३ ॥ ततस्ते कथयामासुः सूरेः स्वमं तमद्भुतम् । ( ग्रन्थाग्रन्थ ६००० ) । सूरिरुवाच तस्यार्थ साधूनां पृच्छताममुम् ॥ ४ ॥ सुसाधुपरिवारोऽद्य सूरिरेष्यति कोऽपि वः । प्राघूर्णकः परं भव्यो नासाविति विनिश्चयः॥ ५ ॥ यावज्जल्पत्यसौ तेषां साधूनामग्रतः कृती । रुद्रदेवाभिधः सूरिस्तावत्तत्र समागतः ॥ ६ ॥ शनेश्वर इवस्फारसौम्यग्रहगणान्वितः । एरण्डतरुवत्कान्तकल्पवृक्षगणावृतः ॥ ७ ॥ कृता च तस्य तैस्तूर्णमभ्युत्थानादिका क्रिया । आतिथेयी यथायोग्यं सगच्छस्य यथागमम् ॥ ८ ॥ ततो विकलवेलायां कोलाकारस्य तस्य तैः । परीक्षणाय निक्षिप्ता अङ्गाराः कायिका भुवि ॥९॥ स्वकीयाचार्यनिर्देशात् प्रच्छन्नैश्च तकैः स्थितैः । वास्तव्यसाधुभिर्दृष्टास्ते प्राघूर्ण कसाधवः ॥ १० ॥ पादसंचूर्णिताङ्गारकुशत्काररवश्रुतौ । मिथ्यादुष्कृतमित्येतद् ब्रुवाणाः प्राणिशङ्कया ॥ ११ ॥ कुशत्काररवस्थाने कृतचिह्ना इतीच्छया । दिने निभालयिष्यामः कुशत्कारः किमुद्भवः १ ॥ १२ ॥ आचार्यो रुद्रदेवस्तु प्रस्थितः कायिकाभुवम् । कुशत्काररवं कुर्वन्नङ्गारपरिमर्द्दनात् ॥ १३ ॥ जीवाश्रद्धानतो मूढोऽवदंश्चैतज्जिनैः किल । जन्तवोऽमी
अंगारमईकाचार्य०
॥ १७९ ॥