________________
तत्र तयोर्द्रव्यशब्दयोर्मध्येऽभव्यादीनामभव्यसकृद्वन्धकादीनां ग्रन्थिकसत्त्वानां द्रव्यत आज्ञाभ्यासपराणामप्रधा-11 नोऽप्रधानार्थी द्रव्यशब्दो वर्तते । इति वाक्यालंकारे । भवति चाभव्यानामपि ग्रन्थिस्थानप्राप्तानां केपाश्चिद् आज्ञालाभो द्रव्यतः । यथोक्तम्-'तित्थकराइपूर्य दणण्णेण वावि कजेण। सुयसामाइयलंभो होजाऽभवस्स गंठिम्मि ॥१॥" इतरपामपुनर्वन्धकादीनां योग्यतायां द्रव्यशब्दो वर्तते। कथमित्याह-भावाज्ञाकारणत्वेन सद्भूताज्ञाहेतुभावेनेति ॥२५६॥ ___ अथ प्रधानाप्रधानयोर्द्रव्याज्ञयोश्चिह्नान्यभिधातुमाह;लिंगाण तीएभावोन तदत्थालोयणंण गुणरागो।णो विम्हओ ण भवभयमिय वच्चासो य दोण्हपि २५७ है।
लिझानां चिहानां तस्यामाज्ञायां सत्यां भावः सत्तालक्षणो वाच्यः। द्वयोरपीत्युत्तरेण योगः । तत्राप्रधानायां स तावदुच्यते । न नैव तदर्थालोचनमाज्ञाभिधेयार्थपर्यालोचनं, न गुणरागः-नाज्ञाप्ररूपकाध्यापकादिपुरुपगुणपक्षपातः, तथा न विस्मयोऽहो । मयाऽप्राप्तपूर्वेयं जिनाज्ञाऽनादौ संसारे कथंचित् प्राप्तेत्येवंरूपः, तथा न भवभयं संसारभीतिः, | सामान्येनाज्ञाविराधनायां वा एतावन्त्यप्रधानद्रव्याज्ञाया लिङ्गानि प्रधानद्रव्याज्ञाया इति विपर्यासश्च पूर्वोक्तलिङ्गव्यत्ययः पुनः, यथा, तदर्थालोचनगुणरागो विस्मयो भवभयं चेति द्वयोरपि प्रधानाप्रधानार्थयोर्द्रव्यशब्दयोः प्रयोगे मतीति ॥ २५७॥ । प्रागप्रधानार्थद्रव्यशब्दप्रयोगचिन्तायामङ्गारमईकः केवल एवोक्तः। साम्प्रतं यौगपद्येन प्रधानाप्रधानार्थद्रव्यशब्द | नियोजयन्नमारमईकगोविन्दवाचकापुररीकृत्याहा
PASSIERE