________________
वैयावृत्यस्वरूपम्.
श्रीउपदे- हैं। अत एव पौर्वापर्यशुद्धां वैयावृत्त्यविषयामाज्ञां दर्शयति;
शपदे पुरिसं तस्सुवयारं अवयारं वऽप्पणो य णाऊणं । कुज्जा वेयावडियं आणं काउं निरासंसो॥ २३७ ॥ ॥ ॥१७३॥ पुरुषम्-आचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकलक्षणपदस्थपुरुषपञ्चकरूपं ग्लानादिरूपं च, तथा तस्य-पुरुष
स्योपकारम्-उपष्टम्भं ज्ञानादिवृद्धिलक्षणम् , अपकारं च-तथाविधावस्थावैगुण्यात् श्लेष्मादिप्रकोपलक्षणम् , तथाऽऽत्मनश्च-स्वस्यापि शुद्धसमाधिलाभरूपमुपकारमपकारं च शेषावश्यककृत्यान्तरहानिस्वभावं वा ज्ञात्वा सूक्ष्माभोगपूर्वक कुर्याद्-विदध्यात् । वैयावृत्यम्-उक्तरूपमाज्ञां कृत्वा-सर्वज्ञोपदेशोऽयमिति मनसि व्यवस्थाप्य निराशंसः-कीर्त्यादिफलाभिलाषविकलः सन्निति ॥ २३७॥
न च वक्तव्यं क्रियात एव फलसिद्धिर्भविष्यतीति किं पुनः पुनराज्ञोद्घोषणेनेत्याह;आणावहुमाणाओ सुद्धाओ इह फलं विसिट्ठति ।ण तु किरियामेत्ताओ पुवायरिया तहा चाहु ॥२३८॥
आज्ञाबहुमानाद्-वचनपक्षपाताच्छुद्धात्-कुग्रहादिदोषरहितात्, इह-चयावृत्त्यादिकृत्येषु फलं विशिष्टं-पुण्यानुवन्धिपुण्यरूपं निरनुवन्धाशुभकर्मरूपं च सम्पद्यत इति । न पुनः क्रियामात्राद्-मत्रविवर्जितसर्पदष्टापमार्जनक्रियाकल्पात्र साधुसमाचारासेवनादेः केवलाद् विशिष्टं फलमस्ति । एतदेव दृढीकुर्वन्नाह-पूर्वाचार्यास्तथा च-तथैव यथोच्यतेऽस्माभिस्तथाहुः-ब्रुवते ॥ २३८॥
२॥१७३॥