________________
-
यदाहस्तदेव गाथाद्वयेन दर्शयति;भावाणावहुमाणाओ सत्तिओ सुकिरियापवित्तीवि। नियमेणं चिय इहरा ण तको सुद्धोत्ति इट्टासा ॥२३९ ।
भावाद-अन्तःपरिणामाद् य आज्ञावहुमानः-उक्तरूपः तस्मात् कथंचिज्जातात् । किमित्याह-शक्तितः-स्वसामर्थ्यानुरूपं 'मुक्रियाप्रवृत्तिरपि' सुक्रियायां-मार्गानुसारसारायां दर्शनप्रभावनादिकायां चित्ररूपायां प्रवृत्तिः-उत्साहरूपा भवतीति, भावाज्ञायहुमानस्तावत् सम्पन्न एवेत्यपिशब्दार्थः, नियमेनैव, शुद्धभावाज्ञावहुमानस्य तथाविधमघोन्नतेरिव जलगृष्टिक्रिया(याः सुक्रिया)या व्यभिचाराभावात् । विपक्षे वाधकमाह-इतरथा सुक्रियायाः प्रवृत्तिनिरोधेन नैव तकोभावाना-बहुमानरूपः शुद्धो वर्त्तते, स्वकार्यसाधकस्यैव कारणस्य निश्चयतः कारणभावात् । इत्यस्मात् कारणाच्छुद्धे || भावाजावहुमाने इप्टा सा मुक्रिया ॥ २३९ ॥ __ ततोऽपि किमित्याह;
एईए उ विसिटुं सुवन्नघडतुल्लमिह फलं नवरं । अणुवंधजुयं संपुन्नहेउओ सम्ममवसेयं ॥ २४०॥ एतस्याः पुनः-सुक्रियायाः सकाशाद् विशिष्टम्-अपरक्रियाजन्यपुण्यविलक्षणम् । अत एवाह-सुवर्णघटतुल्यं-शातकुम्भकुम्भसन्निभमिह-जगति फलं-पुण्यलक्षणं नवरं-केवलं जायते अनुवन्धयुतम्-उत्तरोत्तरानुगमरूपवत् । कुत इत्याहमम्पूर्णदतुतः' सम्पूर्णेभ्यो हेतुभ्यो भावाद्, हेतवश्चास्य प्राणिकरुणादयः । यथोक्तम्-"दया भूतेषु संवेगो, विधिवद् |
OSHO LA STROSSOSLASHASHASHG
-