________________
यावत्यम्-अन्नपानीपधभैषजदानादिना पादधावनगरीरसंवाहनशयनासनरचनादिना च साधुजनोपकारिणा चित्र-12 पेण क्रियाविशेपेण व्यावृत्तभावो न-नैव पतति-भज्यते । अत्र हेतुमाह-'अणुवंधेलं' ति अनुवन्धोऽनुगमोऽव्यवच्छेद 18 इत्येकोऽर्थन्तदस्यास्तीत्यनुवन्धवत् , तथा चोक्तम्-"पडिभग्गरस मयस्स व नासइ चरणं सुर्य अगुणणाए । न उ वेयायचयं महोदयं नासए कम्म॥” इत्यस्मात् कारणात् सह-प्रकटितप्रमोदमेकः कश्चित् स्वभावत एव वैयावृत्त्यरुचिरितो-चयापत्त्यं न पततीति लक्षणात् सर्वज्ञवचनादत्र-वैयावृत्ये प्रवर्त्तते धनिकम्-अत्यर्थम्। इदमेव व्याचष्टे-निजश-1 तिनिरपेक्षं स्वल्पबुद्धि तया स्वसामर्थ्यानपेक्षणेन । यथा हि कश्चिदपरिणतप्रज्ञः सञ्जाततीव्रबुभुक्षः स्वजठरानलवल्लोल्लङ्घनेन मुजानो न कयन गुणमवामोति, किन्त्वग्निमान्द्यापादनेन दोपमेव । एवं प्रस्तुतवैयावृत्त्येऽपि भावनाकार्या ॥ २३५ ॥
त्यमल्पमतिविषयं वैयावृत्त्यमभिधाय, अधुना तद्विपर्ययेणाभिधातुमाह;अन्नो उ किं इमं भन्नतित्ति वयणाओ कह व कायत्वं । सत्तीऍतह पयति जह साहति बहुगमेयं तु ॥२३॥ | अन्यः पुनः ययावृत्त्यरुचिरेव धार्मिकविशेपो बहुमतिः किमिदं-वैयावृत्त्यं भण्यते शास्त्रेष्विति वैयावृत्त्यस्वरूपं प्रथमतो मीमांसते, अज्ञातस्य तु कर्तुमशक्यत्वात् । ततो वचनाजानीते संयतलोकस्योचितार्थसम्पादनरूपमेतदिति । तथा, कथं वा--केन चा प्रकारेण गुरुवालवृद्धादिजनोचितप्रवृत्तिरूपेण कर्त्तव्यमिति । इत्यूहापोहयोगेन शक्त्या-स्वसामर्थ्यानुरूपं तथा प्रवर्तते प्रस्तुत एव वैयावृत्त्ये यथा साधर्यात वहुकमेतत्तु-इदमेव वैयावृत्त्यं, शक्तेरत्रोटनेन प्रतिदिनं वृद्धिभावाअदिति भावः ॥ २३६ ॥
ॐॐॐॐॐॐॐ