________________
श्रीउपदेशपदे
॥ १७२ ॥
योग्याः प्रत्युपेक्षणाप्रमार्जनादिका श्रेष्ठाः किमित्याह अनन्ताः - अनन्तनामकसंख्याविशेषानुगता अतीताः - व्यतिक्रान्ता भवे-संसारे सकला अपि-तथाविधसामग्रीवशात् परिपूर्णां अपि सर्वेषां भवभाजां प्रायेण, अव्यवहारिकराशिगतानल्पकालतन्निर्गतांश्च मुक्त्वेत्यर्थः । ततोऽपि किमित्याह-न च-नैव तत्रापि - तास्वपि सकलासु द्रव्यलिङ्गक्रियासु जातमेतत्सद्धर्म्मवीजमिति । कथञ्चित् कषाया प्रवृत्तिलक्षणलेश्याशुद्धावपि निरवधिभवभ्रमणयोग्यतालक्षणस्य सहजस्य भावमलस्य प्रभूतस्याद्यापि भावात् । यथोक्तम् - "एतद् भावमले क्षीणे, प्रभूते जायते नृणाम् । करोत्यव्यक्तचैतन्यो, महत् कार्य न यत् क्वचित् ॥ १ ॥ २३३ ॥
ता एयम्मि पत्तो आहेणं वीयरायवयणम्भि । बहुमाणो कायवो धीरेहिं कथं पसंगेण ॥ २३४ ॥
तत्-तस्मादेतस्मिन् - धर्मबीजे प्रयत्नो-यलातिशयः कर्तव्यो धीरैरित्युत्तरेण योगः । किंलक्षणः प्रयत्नः कर्त्तव्य इत्याशंक्याह - ओघेन - सामान्येन वीतरागवचने - वीतरागागमप्रतिपादितेऽपुनर्वन्धक चेष्टाप्रभृत्ययोगिकेवलिपर्यवसाने ततचित्तशुद्धसमाचारे बहुमानो भावप्रतिबन्धः क्षयोपशमवैचित्र्याद् मृदुमध्याधिमात्रः कर्त्तव्यो धीरैः - बुद्धिमद्भिः । उपसंहरन्नाह - कृतं प्रसङ्गेन - पर्याप्तं धर्मबीजप्रख्यापनेनेति ॥ २३४ ॥
अथाज्ञापूर्वक प्रवृत्तावपि प्राक्प्रपश्चितबुद्धिपरिणतिरूपा मीमांसैव कार्यसाधिकेति प्रपञ्चयितुमिच्छुराहःवेयावच्चं न पडति अणुबंधे ंति सहरिसं एक्को। एत्तो एत्थ पयहति धणियं णिय सत्तिनिरवेक्खं ॥ २३५॥
धर्मवीज
प्राप्तिकर
णोपायः
॥ १७२ ॥