________________
श्रीउपदेशपदे
॥ १७० ॥
॥ १६ ॥ जिनवाचा न चाहं भोस्तदत्र किमु कारणम् । एकचित्ततया ख्यातावावां लोके इयच्चिरम् ॥ १७ ॥ इदानीमत्र संजातं, विभिन्नं चित्तमावयोः । तदत्र कारणं किं स्यादन्यो वक्ति स्म विस्मितः ॥ १८ ॥ सत्यमेवं ममाप्यत्रविकल्पः संप्रवर्त्तते । केवलं केवली नूनं, निश्चयं नौ करिष्यति ॥ १९ ॥ स एव प्रश्नितोऽत्रार्थे तद्यातास्वस्तदन्तिके । एवं तौ निश्चयं कृत्वा, प्रातर्यातौ तदन्तिके ॥ २० ॥ पप्रच्छतुस्तमाराध्यं, विनयेन स्वसंशयम् । सोऽप्युवाच पुरैकेन, श्लाघितो युवयोर्मुनिः ॥ २१ ॥ तथाहि - आस्तां युवां क्वचिद्रामे, द्रङ्गिकस्य तनूद्भवौ । कालक्रमेण तारुण्यं, लावण्यपदमागतौ ॥ २२ ॥ संजाततद्विकारौ च जातौ भूतेरभावतः । तथा मनोरथाः किञ्चिन्न पूर्यन्ते कथञ्चन ॥ २३ ॥ अनार्य कार्यमारब्धौ कर्त्तुं चौर्य ततोऽन्यदा । ग्रामान्तरे हृता गावो, गत्वा रात्रावतित्वरौ ॥ २४ ॥ दण्डपाशिकलोकेन, भवन्तौ त्रासितौ ततः । प्रारब्धौ नंष्टुमेकोऽथ, साधुः शैलगुहागतः ॥ २५ ॥ ध्यानमौनक्रियालग्नो, युवाभ्यां समदृश्यत । ततश्च धर्मपालस्य, जीवेनेदं व्यचिन्त्यत ॥ २६ ॥ अहो सुलब्धजन्मास्य, प्रशस्याचारसद्मनः । यदित्थं निर्भयः शान्तस्त्यक्तसङ्गोऽवतिष्ठते ॥ २७ ॥ वयं पुनरधन्यानामधन्या धनकांक्षया । विदधाना विरुद्धानि, पराभवपदं गताः ॥ २८ ॥ धिक्कारोपहतात्मानो, यास्यामः कां गतिं मृताः । ही जाता दुःस्वभावेन, लोकद्वयविराधकाः ॥ २९ ॥ तदेवं निर्मलं साधोर्वृत्तं वारितकल्मषम् । विपरीतमतोऽस्माकमस्मात् कल्याणकं कुतः १ ॥ ३० ॥ अन्यः पुनरुदासीनः, समभूत्तं मुनिं प्रति । गुणरागादवापैको वोधिबीजं न चापरः ॥ ३१ ॥ ततस्तनुकषायत्वाद्, भवन्तौ दानतत्परौ । नरजन्मोचितं कर्म, बद्धवन्तावनिन्दितम् ॥ ३२ ॥ मृत्वा युवां समुत्पन्नावेतावत्र वणिक्सुतौ । जातावनिन्दिताचारौ,
?
श्रेष्ठिपुत्रद्व
यद्द०
॥ १७० ॥