________________
दंगियपुत्ता गोहरण पच्छखेडणग सेलगृहसाहू । धम्मपसंसपओसा वीयावीया दुवेण्हंपि ॥ २२९ ॥
समस्ति निखिलक्षोणीकामिनीमण्डनोपमा । कौशांव्याख्या पुरी शम्ब-पाणिपत्तनभूतिभाक् ॥ १॥ तत्रैक-च्छत्रवसुट्राधापरिपालन विश्रुतः । राजा जितारिनामाऽभूत् , सद्भूतगुणसन्निधिः ॥ २॥ श्रेष्ठिनौ तत्र सुप्ठुश्रीभाजनं जनपूजितौ ।
अभूतां धनयक्षाहाबौदार्यादिगुणान्वितौ ॥३॥ धनस्य धर्मपालोऽभून्नन्दनः कुलनन्दनः। वसुपालश्च यक्षस्य, वसुवृ13/ द्विविधायकः ॥ ४ ॥ जन्मान्तरीयसंस्कारादाबालत्वात्तयोरभूत् । अत्यन्तमित्रताभावो, लोकाश्चर्यविधायकः॥५॥ है रोचते च यदेकस्य, तदन्यस्यापि रोचते । ततो लोके गतौ ख्यातिमेकचित्ताविमाविति ॥ ६॥ ततः कुलोचितं कर्म,
कुर्वतोर्यान्ति वासराः । अन्यदा भुवनानन्दी, प्राप्तस्तत्र जिनेश्वरः॥७॥ भगवान् श्रीमहावीर-इक्ष्वाकुकुलनन्दनः।
गीर्जर्जनसन्तापशमनेऽम्भोदसन्निभः ॥ ८॥ विदधुस्तस्य गीर्वाणा, व्याख्याभूमि मनोहराम् । तत्रासौ धर्ममाचख्यौ, है ससुरासुरपर्पदि ॥ ९॥ तमागतं समाकर्ण्य, कौशाम्बीवासिनो जनाः । राजादयः समाजग्मुर्वन्दितुं तत्पदाम्बुजम् | M॥ १० ॥ तावपि श्रेष्ठिनोः सूनू , कुतूहलपरायणौ । जनेन सार्द्धमायातौ, जिननायकसन्निधौ ॥ ११ ॥ जिनस्तु देश
यामास, मोक्षमार्ग सनातनम् । सत्त्वानां सर्वकल्याणकारणं करुणापरः ॥ १२॥ ततस्तयोर्वणिक्सून्वोरेकस्य तजिनोदितम् । श्रद्धानमार्गमायाति, भाव्यते च स मानसे ॥ १३ ॥ स्फाराक्षो मस्तकं धुन्वन् , कर्णपणेपुटापितम् । रोमाञ्चितः पिवत्युच्चैजिनवाक्यं यथाऽमृतम् ॥ १४ ॥ तदन्यस्य तदाभाति, वालुकाकवलोपमम् । अन्योऽन्यस्य च तौ भावं, लक्ष| यामासतुस्तराम् ॥ १५ ॥ व्याख्याभुवः समुत्थाय, जग्मतुर्भवनं निजम् । तत्रैको व्याजहारैवं, भ्रातस्त्वं भावितः किल