________________
श्रीउपदेशपदे
॥ १६९ ॥
चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं धर्मवीजमनुत्तमम् ॥ १ ॥ उपादेयधियाऽत्यन्तं, संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं, संशुद्धं ह्येतदीदृशम् ॥ २ ॥ आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ॥ ३ ॥ भवोद्वेगश्च सहजो, द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य, विधिना लेखनादि च ॥ ४ ॥ लेखना पूजना दानं श्रवणं वाचनोद्रहः । प्रकाशनाऽथ स्वाध्यायश्चिन्तना भावनेति च ॥ ५ ॥ दुःखितेषु दयाऽत्यन्तमद्वेपो गुणवत्सु च । औचित्यासेवनं चैव सर्वत्रैवाविशेषतः ॥ ६ ॥" इत्यादि ॥ २२५ ॥
अत्रैव दृष्टान्तमाहः –
as aणणार्यं एत्थं बोहीऍ पत्तिविग्धकरं । तं चेव उ कुसलेहिं भावेयवं पयत्तेणं ॥ २२६ ॥
श्रूयते च - निशम्यते पुनः सर्वज्ञप्रणीतागमे स्तेन ज्ञातं - चौरोदाहरणमत्र - प्रस्तुते बीजाधाने वक्तुमारब्धे सति 'बोधिप्राप्तिविघ्नकरं ' बोधिप्राप्तेर्बोधिविघ्नस्य च कारकपुरुषद्वयसूचकत्वेन तत्कारकं । तदेव तुशब्दाद् अन्यानि च धनसार्थवाहादिज्ञातानि कुशलैः - विद्वद्भिर्भावयितव्यं-मीमांसनीयं प्रयलेनेति ॥ २२६ ॥
तदेव गाथात्रयेणाह :
कोविट्ठय गाढपीती पाएण तुल्लफलसिद्धी । वीरोसरणे सवणं बोहि अभावेसु य विसेसो ॥२२७॥ हरिसो मज्झत्थत्तं परोप्परं चित्तजाणणा भेओ । पुच्छा अबोहि नेहे बहु जोगोऽबीजगो कह णु ? ॥२२८॥
आज्ञापरतंत्राणांकर्तव्योपदे
शः
॥ १६९ ॥