________________
वणिग्धर्मपरायणी ॥ ३३ ॥ एकस्येह तदेतस्य, जातं वीजस्य तत्फलम् | सद्बोधरूपमन्यस्य, निर्बीजत्वेन नाभवत् ॥ ३४ ॥ एवं पूर्वभवा सेवां, जिनेनोक्तां सविस्तराम् । निशम्यैकस्य सञ्जातं जातेः संस्मरणं क्षणात् ॥ ३५ ॥ ततोऽसौ प्रत्यये जाते, जातः संवेगभावितः । भावतश्च जिनोद्दिष्टं, प्रपेदे शासनं शुभम् ॥ ३६ ॥ तत्प्रतिपत्तिसामर्थ्याच्छुभक मनुबन्धतः । सिद्धिं यास्यत्यसौ काले परः संसारमेव हि ॥ ३७ ॥
अथ गाक्षाक्षरार्थः - 'कोसंवित्ति कौशांच्यां पुरि 'सेट्ठिय'त्ति श्रेष्ठिनः सुतौ गाढमीतौ परस्परं प्रायेण वहन् वारान् 'तुछफलसिद्धी' व्यवहारप्रवृत्तौ समानफललाभौ च प्रवर्त्तते । अन्यदा च 'वीरोसरणे' इति वीरसमवसरणे श्रवणंधर्मसमाकर्णनमभूत् । तयोर्योध्यभावयोश्च - वोधावभावे च सति विशेषः संवृत्तः ॥ २२७ ॥ १ ॥
तमेव दर्शयति- 'हरिसो मज्झत्थत्तं' इत्यादि, हर्षः सन्तोप एकस्य धर्मपालजीवस्य, मध्यस्थत्वम् - उदासीनत्यमन्यस्य परस्परम्-अन्योऽन्यस्य चित्तज्ञानमभूत् । ततो भेदश्चित्तस्य संवृत्तः ततः 'पुच्छा अवोहि 'त्ति अवोधिगोचरा पृच्छा कृता ज्येष्ठेन भगवतः पार्श्वे । 'नेहे बहुजोगो' इति भगवान् ! स्नेहे सत्यावयोर्वहुः प्रभूतो योगः सदा व्यवहारकारणादिस| म्वन्ध एकचित्तयोरभूत् । ततः वीजं मुक्तिकल्पतरोः सम्यक्त्वं तद्यस्य नास्ति सोऽवीजकः कथं केन हेतुनैप मत्सखा सम्पन्नः ? नु वितर्फे इति ॥ २२८ ॥ २ ॥
'दंगियपुत्ता' इत्यादि । ततो भगवता प्राच्यवृत्तान्तः कथयितुमारब्धस्तयोः, यथा -द्रङ्गिकपुत्रौ द्रङ्गो नाम गोधनवमुः सन्निवेशविशेषः सोऽस्यास्तीति निको- ग्राममहत्तरकस्तत्सुतौ युवां भूतवन्तौ । 'गोहरण'त्ति कदाचिद् भवद्भ्यां