________________
२२.
एतमेवार्थ व्यतिरेकमुखेनाहः -
अकए बीजक्खेवे जहा सुवासेऽवि न भवती सस्सं । तह धम्मवीयविरहे ण सुस्समाएवि तस्सस्सं ॥२२४॥
अकृते--अविहिते बीजक्षेपे - शालिमुद्गादेवजस्य वपने यथा सुवर्षेsपि - जलभार मेदुरजलधर धाराप्राग्भारनिपातलक्षणेऽपि न नैव भवति मस्यं धान्यं तथा 'धर्मवीजविरहे' धर्मवीजानां सम्यक्त्वादिसमुत्पादकानां धर्मप्रशंसादिकानां हेतूनां परिहारे न सुषमायामपि ममा नाम कालविभागः सुष्ठु - तीर्थकरजन्मादिमहामहसहायत्वेनातिशयवती समा सुपमा तस्यां, किं पुनरितरममा दुष्पमादिलक्षणा स्वित्यपिशब्दार्थः, तत् सस्यं स एव धर्म एव विषयाकांक्षावुभुक्षाक्षयावहत्वेन मयं भवतीति । यथोक्तम् “नाकारणं भवेत् कार्य, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात्, कार्यकारणयोः कचित् ॥ १ ॥ ॥ २२४ ॥
यस्मादेवं ततः किं कर्त्तव्यमित्याह;
आणापरतंतेहिं ता वीजाधाणमेत्थ कायवं । धम्मम्मि जहासत्ती परमसुहं इच्छमाणेहिं ॥ २२५ ॥
आज्ञा परतंत्रैः- सर्वज्ञवचनायत्तीकृतात्मभिः 'ता' इति तस्माद् ' वीजाधानं - जिनमुनिप्रभृतिपवित्रपदार्थकुशलचित्तादिलक्षणम्, अत्र प्रस्तुते कर्त्तव्यं धर्मे - साध्यत्वेनाभिमते सति यथाशक्ति - स्वसामर्थ्यानुरूपं परमसुखम् - एकान्तिकात्यन्तिका - नन्दमंदोमयं शर्म इच्छतिः - वान्छद्भिरिति । धर्मबीजानि चैवं शास्त्रान्तरे परिपठितानि दृश्यन्ते यथा “जिनेषु कुशलं