________________
तीर्थव्या
श्रीउपदेशपदे
ख्या .
SEARSHASO+
॥१६४॥
समाधिः सानुवन्धसमाधिलाभफलत्वेन पुनरपि जन्मान्तरे समाधिलाभफलसम्पद्यत इति कृत्वा तेन तत्र काल: कृतः॥२११॥९॥ ___ अयं च गजाग्रपदकपर्वतस्तीर्थमिति प्रस्तावात् तीर्थ व्याचिख्यासुराह;जस्स जहिं गुणलाभो खेत्ते कम्मोदयाइहेऊओ। तस्स तयं किल तित्थं तहासहावत्तओ केई ॥२१॥
यस्य-मुमुक्षोर्जीवस्य यत्र गुणलाभो-ज्ञानादिगुणावाप्तिः क्षेत्रे-गजानपदकादौ जायते । कुत इत्याह-कर्मोदयादिहे. तुतः' कर्मणः-सद्वेद्यादेः शुभस्योदयो-विपाकः, आदिशब्दाद् अशुभस्य घातिकादेः क्षय-क्षयोपशमोपशमा गृह्यन्ते, कर्मोदयादीनां हेतु:-कारणं क्षेत्रमेव तस्मात् कर्मोदयादिहेतुतः सकाशात् । किमित्याह-तस्य तत्, किलेति आप्तप्रवादसूचनार्थः, तीर्थ व्यसनसलिलतरणहेतुः सम्पद्यते, उक्तं च "उदयक्खयक्खओवसमोवसमा जंच कम्मुणो भणिया। दवं खेत्तं कालं भवं च भावं च संपप्प ॥१॥” इति । अत्रापि मतान्तरमाह-तथास्वभावत्वतः केचित्तीर्थ व्याकुर्वते । इहेदमैदंपर्यम्-किल मनुष्यक्षेत्राभ्यन्तरे स कश्चित् क्षेत्रविभागो नास्ति यत्रास्मिन् अनाद्यनन्ते कालेऽनन्ता न सिद्धाः, नापि सेत्स्यन्ति, अतः किं नाम नियतं तीर्थ वक्तुमुचितं, किंतु तथास्वभावत्वनियमाद्यो जीवो यत्र विशिष्टगुणलाभवांस्तस्य तदेव तीर्थमिति ॥ २१२॥ आराहिऊण ततियं सो कालगतो तहिं महासत्तो। वेमाणिएसु मतिमं उववन्नो इडिजुत्तेसु ॥ २१३ ॥
+
4
॥१६४॥