________________
अन्यत्रापि गुरुव्यतिरिक्तेऽपि जीवादी विषये गुरौ तावदविभ्रम एवेत्यपिशब्दार्थः, अनाभोगश्चैवानुपयोग एव नवरं । केवलं निविश्रुतावरणप्रतिघाताद् एतस्य मापतुपादेरत्यन्ततत्त्वजिज्ञासावतोऽपि नीलपीतादिरूपोपारूढ दृढ दिदृक्षापरि| णामस्य यथा कस्यचिद् अन्धस्य दृश्येष्वर्थेषु व्यवच्छेद्यमाह-न नैव विपर्ययो विपर्यासः । इति पदपरिसमाप्तौ । नियमाद् निश्चयेनात्र हेतु मिथ्यात्वादीनां मिथ्यात्वमोहनीयस्यादिशब्दाद् अनन्तानुवन्धिनां च बोधविपर्यासकारिणां, तथा क्रियाव्यत्यय हेतूनाम् अप्रत्याख्यानावरणानां प्रत्याख्यानावरणानां च कपायाणामभावादनुदयात् । एतदुदयो हि हत्पूरकोपयोगवत्, मयादिकुद्रव्योपयोगवद् वा नियमाद् आत्मानं भ्रममानयति । तद्वतश्च न तात्विकी काचित् कार्यनिष्पत्तिरिति ॥ १९७ ॥
अत एवा
एसो य एत्थ गरुओ णाणज्झवसाय संसया एवं | जम्हा असप्पवित्ती एत्तो सवत्थणत्थफला ॥१९८॥
एष एव विपर्यय एव अत्रेषु वोधदोषेषु मध्ये गुरुको महान् दोषः । व्यवच्छेद्यमाह-न नैवानध्यवसायसंशयों एवं | गुरुको दोषौ । तत्रानध्यवसायः सुप्तमत्तपुरुषवत् कचिदप्यर्थे वोधस्याप्रवृत्तिः, संशयश्चानेकस्मिन् विषयेऽनिश्चायकतया | प्रवृत्तिः, यथोक्तम् - " जमणेगत्यलंत्रणमपरिदो सपरिकुंठियं चित्तं । सयइव सवप्पयओ तं संसयरूत्रमण्णाणं ॥ १ ॥” इति । यस्माद् असत्प्रवृत्तिः परिशुद्धन्यायमार्गानवतारिणी चेष्टा, इतो विपर्यासात् सर्वत्र सर्वेष्वैहलौकिकपारलौकिकेष्वमनर्थफला व्यसनगतप्रसविनी प्रादुरस्ति । यदाऽवाचि - " न मिथ्यात्वसमः शत्रुर्न मिथ्यात्वसमं विषम् । न मिथ्या