________________
tat विपविकारादिवद्दारुणः, खलुरवधारणे, संसारो नरनारकादिभ्रमणरूपः सर्वशरीरसाधारणः पारमार्थिकव्याधिस्वभावतामापन्नो यतः, ततः शुद्धो धर्म एव पञ्चनमस्कारस्मरणादिरूप औषधं निवृत्तिहेतुरस्य संसारस्य । यथोक्तम् -"पंचनमोकारो खलु विहिदाणं सत्तिओ अहिंसा य । इंदियकसायविजओ एसो धम्मो सुहपओगो ॥ १ ॥" एवमगते यदेष पुनर्निर्णीतवान्, तदाह — गुरुकुलसंवासे गुरोरुक्तलक्षणस्य कुलं परिवारस्तत्रसम्यक् तद्गतमर्यादया वासे सति स शुद्ध धम्म निश्चयतः परमार्थवृत्त्या सम्पद्यते । अनिश्चयरूपस्तु कृत्रिमसुवर्णसदृशः परीक्षामक्षममाणोऽन्यथापि स्यात् । न च तेन किञ्चित्, संसार फलत्वेनासारत्वादिति ज्ञातमेतेन मापतुपादिना साधुजडेनापि सता ॥ १९४ ॥ कुत एतदेवमिति चेदुच्यते;
जं कुणति एवमेवं तस्साणं सवहा अलंघंतो । एगागिमोयणम्मिवि तदखंडण मो इहं णायं ॥ १९५ ॥ यस्मात् कुरुते एवं निश्चयतः, एवं गुरुकुलसंवासं मापतुषादिः । कीदृश इत्याह- तस्य गुरोराज्ञामिच्छामिथ्याकारादिपरिपालनरूपां सर्वथा मनसा वाचा कायेन च अलंघयन्ननतिक्रामन् । नन्वेकाकिनस्तस्य किमित्याह -- एका किमो - चनेऽपि कुतोऽप्यशिवादिपर्यायादेकाकिनोऽपरसाधुसाहाय्यरहितस्य क्वचिद् ग्रामनगरादौ गुरुणा स्थापने सत्यपि तद्खण्डना गुर्वाज्ञानुलंघना वर्त्तते 'मो इति प्राग्वत् । अयमत्राभिप्रायः - बहुसाधुमध्ये लज्जा भयादिभिरपि भवत्येव गुर्वा - ज्ञानुलंघनम् । यदा त्वसौ एकाकितया युक्तोऽपि गुरुकुलवासप्रवृत्तां सामाचारीं सर्वामनुवर्त्तते, तदा ज्ञायते निश्चयतो गुरुकुलसंचासत्रानसौ, तत्साध्यस्य क्रियाकलापस्य सर्वथाऽखण्डनात्, इह गुर्वाज्ञानुल्लंघने ज्ञातं दृष्टान्तो ज्ञेयम् ॥ १९५॥