________________
करकर
रित्यतम्तीग्रमिय्यात्यमोहनीयक्षयोपशमभावात् , इह च मार्गश्चेतसोऽवक्रगमनं भुजङ्गगमननलिकायामतुल्यो विशिष्टगु-10
णस्थानावाप्तिप्रगुणः स्वरसवाही जीवपरिणतिविशेपस्तमनुसरति तच्छीलश्च यः स तथा तद्भावस्तत्त्वं तस्मात् , शुभ3ाश्चैव परिशुद्ध एवं व्यावृत्तविपर्यासदुःख एव परिणामो विज्ञेयः । ननु मार्गानुसारित्वेऽपि वठरतया कथं तसरिणामशदाद्धिरित्याशंक्याह-शुभीषसंज्ञानयोगात् शुभमविपर्यस्तमोघेन सामान्येन सुबहुविशेषावधारणाक्षमं यत्संज्ञानं वस्तुतत्त्व
मंवेदनरूपं तस्य योगात् । ते हि वहिबहुश्रुतमपठन्तोऽपि अतितीक्ष्णसूक्ष्मप्रज्ञतया वहुपाठकस्थूलप्रज्ञपुरुपानुपलब्धं सातत्त्वमवबुध्यन्त इति । तदुक्तं-"स्पृशन्ति शरवत्तीक्ष्णाः स्वल्पमन्तर्विशन्ति च । वहुस्पृशापि स्थूलेन स्थीयते वहिरश्मयत् ॥ १॥"
कथानकसम्प्रदायश्चैवम् :3. बभूव कश्चिदाचार्यो गुणरत्नमहानिधिः । श्रुतमत्यर्थिशिष्यालि सेव्यमानक्रमाम्बुजः ॥ १॥ सूत्रार्थपाथसां दाने महा
म्भोद इवाश्रमः । संघादिकार्यभाराणां निस्तारे धुर्यसन्निभः ॥२॥ तस्यैवान्योऽभवद् भ्राता विशिष्टश्रुतवर्जितः। स्वेच्छया स्थान निद्रादेः कर्ता स्वार्थपरायणः॥३॥ तत्र सूरिः क्वचित्कार्ये श्रान्तः सन् मुग्धबुद्धिभिः। अज्ञातावसरैः हा शिष्याख्यानं कारितः किल ॥४॥ ततोऽसौ श्रान्तदेहत्वाद व्याख्यायामक्षमत्वतः। चित्तखेदं जगामात्र चिन्तया
माम चेदृशम् ।। ५ ।। धन्योऽयं पुण्यवानेप मद्धाता निर्गुणो यतः । सुखमास्ते सुखं शेते पारतंत्र्यविवर्जितः ॥ ६॥ वयं पुनरधन्या ये स्वगुणैरेव वश्यताम् । परेपां प्रापिताः स्थातुं सुखेन न लभामहे ॥ ७ ॥ एवं चिन्तयता तेन निवद्धं