________________
श्रीउपदेशपदे
॥ १५२ ॥
| सम्मकिरियाए जे पुण ते अपुणब्भावजोगओ चेव । णेयग्गिदङ्कृतच्चुन्नतुल्ल मो सुवयणणिओगा ॥ १९२॥ सम्यक् क्रियया सर्वार्थेष्वभ्रान्तवोधगर्भया तथाविधत्रतादिसेवनरूपया ये पुनरपनीताः क्लेशाः, तेऽपुनर्भावयोगतश्चैव पुनर्भावयोगः- अपनीतानामपि तथाविधसामग्रीवशात् पुनरुन्मीलनं, तत्प्रतिषेधादपुनर्भावयोगस्तस्मादेव ज्ञेयाः, अग्निदग्धतच्चूर्णतुल्या वैश्वानरप्लुष्टप्लवक कायचूर्णाकाराः । 'मो' इति पादपूरणार्थः । कुत इत्याह- सुवचननियोगात् कषच्छेदतापताडनशुद्धाप्तवचनव्यापारणात् । यथा हि मण्डूकचूर्णो दाहमन्तरेण निर्जीवतामापन्नोऽपि तथाविधप्रावृडादि समयसमुपलब्धावनेकप्रमाणदर्दुररूपतया सद्य एवोद्भवति, तथा कायक्रियामात्रेण क्लेशाः प्रलयमानीता अपि भवान्तरप्राप्तौ तथाविधराज्यादिलाभकालेऽसह्यरूपतामादाय नरकादिफलाः सम्पद्यन्ते । स एव यथा चूर्णो दग्धः सन्निवींजतामागतस्तथाविधसामग्रीसंभवेऽपि नोन्मीलितुमुत्सहते, तथा सर्वज्ञाज्ञासम्पर्क कर्कशक्रियायोगतः क्लेशाः क्षयमुपनीताश्चक्रवर्त्त्यादिपदप्राप्तावपि नात्मानं लब्धुमलमिति ॥ १९२ ॥
नन्वविज्ञातसुवचनविनियोगानामपि केषांचिच्छास्त्रे चारित्ररूपः शुभपरिणामः श्रूयते स कथं तेषां जातः ? इत्या
शंक्याहः
मासतुसादीयाण उ मग्गणुसारित्तओ सुहो चेव । परिणामो विन्नेओ सुहोहसण्णाणजोगाओ॥ १९३॥
मापतुषादिकानां त्वागमप्रसिद्धानां जडसाधूनां पुनर्जीवाजीवादितत्त्वगोचरव्यक्तश्रुतोपयोगाभावेऽपि मार्गानुसा
कर्मक्षयार्थ द्रव्यभाव
त्वयोर्मण्डूचूर्ण
॥ १५२ ॥