________________
गाणायज्झममाओ' इति आज्ञावाह्यात् शमाद् रागद्वेषमन्दतालक्षणात् तथाविधदेवभवैश्वर्यमनुष्यजन्मराज्यादिसुखस्य | फिनिकालं लाभेऽपि पापानुवन्धिपुण्यवशाद् भगवतोऽपि सद्धर्मवीजवपनविधावेकान्तेन खीलीभूतात्मनां कुणिकत्रह्मदतादीनामियोपात्तदुरन्तपापप्रारभाराणां एतादृशकः सुसंमोहः स्वस्थतोत्तरकालभाविदुःखपरिणामतुल्य एव विज्ञेयो मु|णितव्यः । ती हि रागद्वेपावव्यावृत्तप्रवलविपर्यासौ सन्तौ पापानुवन्धिनः सातवेद्यादेः कर्मणो मिथ्यात्वमोहनीयस्य च बन्धहेतू भवतः । ततो भवान्तरे प्राप्तौ तत्पुण्यपाकेन समुदीर्णमिथ्यात्वमोहा अतएव हिताहितकृत्येषु मूढतामुपगता | मलिनकर्मकारिणः प्रागुपात्तपुण्याभासकर्मोपरमे निष्पारनारकादिदुःखजलधिमध्यमजिनो जीवा जायन्त इति ॥१९०॥ | एतदेव तीर्थान्तरीयमतेन संवादयन्नाहापत्तो चिय अवणीया किरियामेत्तेण जे किलेसा उ।मड्डक्कचुन्नकप्पा अन्नेहिवि वन्निया णवरं ॥ १९१ ॥
इत एवाज्ञावाल्यशमस्य दुःखपरिणामफलत्वाद् हेतोः। किमित्याह-अपनीता इवापनीताः समुद्भूतावस्थां त्याजिताः, क्रियामात्रेण क्रिययैव बालतपश्चरणाऽकामशीतोष्णाद्यधिसहनरूपया सम्यग् विवेकविकलत्वेन केवलया वक्ष्यमाणतुशब्दस्य पुनरर्थस्येहाभिसम्बन्धाद् ये तु ये पुनः क्लेशाः कामक्रोधलोभाभिमानादयो दोपाः, ते मण्डूकस्य भेकस्य मृतकस्य सतस्तथाविधप्रयोगायचूर्णः अतिसूक्ष्मखण्डसमूहलक्षणो मण्डूकचूर्णस्तस्मात् किञ्चिदूना मण्डूकचूर्णकल्पा वर्तन्ते । इत्यन्यैरपि तीर्थान्तरीयैः सौगतादिभिर्वर्णिताः स्वशास्त्रेषु निरूपिता नवरं केवलम् । तदुक्तं-"क्रियामात्रतः कर्मक्षयो मण्डूलचूर्णवत्, भावनातस्तु तद्भमवत्" इत्यादि ॥ १९१॥