________________
श्रीउपदेशपदे
॥ १४९ ॥
जं आणा चरणं आहाकम्मादिणायतो सिद्धं । ता एयम्मि पयत्तो विन्नेओ मोक्खहेउत्ति ॥ १८५ ॥ यद्यस्मादाज्ञायाः सकाशाञ्चरणं चारित्रं देशतः सर्वतो वा जीवानां सम्पद्यते, न पुनरन्यथा । अन्यत्राप्युक्तम्" वचनाराधनया खलु धर्म्मस्तद्बाधया त्वधर्म्म इति । इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥ १ ॥ अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति । हृदयस्थिते च तस्मिन्नियमात् सर्वार्थसंसिद्धिः ॥ २ ॥ एतच्चाधाकर्मादिज्ञाततः सिद्धम् । इहाधाकर्म - " सच्चित्तं जमचित्तं साहूणट्ठाए कीरई जं च । अच्चित्तमेव पञ्चइ आहाकम्मं तयं बिंति ॥ १ ॥” इत्यादिसूत्रोक्तलक्षणमन्नपानादि, आदिशब्दात् प्रासुकैषणीयस्यास्यैव ग्रहः, ततस्तदेतद् ज्ञातमुदाहरणम् । ततः सिद्धं पिण्डनिर्युक्तौ प्रतिष्ठितम् । तथा हि- क्वचित् सन्निवेशे केनचिद् मुग्धबुद्धिना दानश्रद्धालुना जैनशासनानुगतेन क्वचित् समये सर्वसङ्घभक्तमुपकल्पितम् । वितीर्णं च पात्रपूरपूर्वकं तद्राहकसाध्वाभासानाम् । श्रुतश्चायं दानव्यतिकरोऽत्यौदार्यसूचकः सन्निहितग्रामवासिना लिङ्गमात्रोपजीविना केनचित् साध्वाभासेन । प्राप्तश्चासावन्यस्मिन् दिने तत्र । पृष्टश्चं तेन श्रावणागमनप्रयोजनम् । भणितं च तेन, भवदौदार्यमन्तरेण नान्यत् किश्चित् । तद्दिने च जामातृकादिः सुबहुः प्राघुणकलोकस्तद्गृहे समागतः । उपस्कृतश्च सूपौदन पक्वान्नादिस्तन्निमित्त माहारः । संविभागितश्च तेन पात्रपूरमसौ भुक्तवांश्चेति ॥
तथा कचिन्नगरे कश्चित् क्षपको मुनिर्विहितमासदिवसोपवासः पारणकदिने तत्रानेषणां सम्भावयन् अज्ञातोञ्छवा - ञ्छया सन्निहितग्रामे जगाम । तत्र चैकया कुटुम्बिन्या यथाभद्रिकयाऽत्यन्तसाधुदानश्रद्धानयाऽतिभूरिक्षीरान्नमुपस्कृत्या
आज्ञायां धर्म इति
सप्रपञ्चनिरू०
॥ १४९ ॥