________________
दरेण दीयमानं सजातशद्धो नूनं न ग्रहीप्यति एतदिति तद्ग्रहणस्यानन्योपायतां पश्यन्त्या शिक्षितानि डिम्भरूपाणि यथा-अपकभिक्षोभिक्षार्थमागतस्य समक्षमिदं क्षीरानं मया परिवेष्यमाणमरुचिसारैर्वचनैरनादेयतामानीय प्रतिषेधनीयम् । तथा विहितं च तैः। क्षपकेणापि दत्तद्रव्यादितीवोपयोगेन सर्वोपधा शुद्धिरिति कृत्वा सर्वविद्वचनाराधनाप्रधानेन प्रतिगृहीतम् । तद् भोक्तमारब्धस्य च "चायालीसेसणसंकडम्मि गहणम्मि जीव! न हु छलिओ। इण्हि जह न छलिजसि भुंजंतो रागदोसेहिं ॥१॥" इत्यादिशुभभावनाभावतः क्षपकश्रेणिप्राप्ती केवलज्ञानमजनीति । एवं प्रथमस्य सर्वज्ञानोपयोगाभावेन शुद्धमपि पिण्डमुपाददानस्य क्लिष्टकर्मबन्धः। द्वितीयस्य तु विहितनिपुणोपयोगस्य तदशुद्धोपादानेऽपि केवलज्ञानफलो निर्जरालाभः संवृत्त इति । अत एवोक्तं समये “आहाकम्मपरिणओ फासुयभोईवि वंधओल भणियो। सुद्धं गवेसमाणो आहाकम्मेऽवि सो सुद्धो ॥१॥” तत्तस्मादेतस्मिन्नागमे प्रयत्नः शुश्रृपाश्रवणग्रहणादिः
मर्वस्य मुमुक्षोविज्ञेयो मोक्षहेतुरिति, एतत्प्रयत्नमन्तरेण मोक्षाभावात् । तथा च पठन्ति “मलिनस्य यथाऽत्यन्तं जलं l हायरसस्य गोधनम् । अन्तःकरणरतस्य तथा शास्त्रं विदुर्बुधाः ॥ १॥ शास्त्रे भक्तिर्जगद्वन्द्यैर्मुक्तिदूती परोदिता । अत्रैयेयमतो न्याय्या तत्प्राप्यासन्नभावतः ॥२॥" ॥ १८५ ॥
एतदेव स्फुटवृत्त्या भावयन्नाह;आणावाहाए जओ सुद्धपि य कम्ममादि निद्दिटुं। तदवाहाए उ फुडं तंपि य सुद्धति एसाणा ॥१८६॥ आज्ञावाधया जिनवचनोलड्नरूपया शुद्धमपि च सत्पिण्डादिवस्तु 'कम्ममादि' आधाकर्मादिसर्वैपणा दोपभाग्