________________
श्रीउपदेशपदे
॥ १४८ ॥
जीवदया वर्त्तते । ततः सारः परमार्थः सर्वधर्मस्थानमध्ये एषोऽहिंसारूपो धर्मः । इत्यस्मात् कारणाद् उद्यच्छति प्रोत्साहमवलम्बस्यामेव । कथमित्याह - इतोऽहिंसायाः सकाशात् सर्वपरित्यागेन सर्वस्य गुरुकुलवासतद्विनयकरणशास्त्राभ्यासादेः शेषधर्मस्थानस्याहिंसाया एव स्वरूपपरिज्ञानाभ्युपगमपरिपालनोपायभूतस्य परित्यागेन परिहारेण, एकः कश्चन प्रासुकपुष्पफलशैवालादिभोक्ता निर्विजनारण्यवासी बालतपस्वी अगीतार्थो वा लोकोत्तरयतिः । इहापरधार्मिकजनमध्ये लोकनीत्या “श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ १ ॥” एवंरूपलौकिकशास्त्रानुसारेण ॥ १८३ ॥
अथैतदेवान्वयत आह
अन्न का अहिंसा आगमओ सो गुरूउ विहिणा उ । एयम्मि कुणति जत्तं लोउत्तरणीतितो मतिमं १८४ अन्यस्तु प्रागुक्त धार्मिक विलक्षणः पुनः धार्मिक एव 'मीमांसते' इति गम्यते । कथमित्याह - का कीदृशी हेतुतः, स्वरूपतोऽनुबन्धतश्च अहिंसा निखिलकुशललोकाभिनन्दनीया वर्त्तते । न चासावन्यथा यथावदवगन्तुं शक्यते, किन्त्वा - गमतः। आगमादाघवचनरूपात् । यथोक्तं - "परलोकविधौ शास्त्रात् प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान् श्रद्धाधनसमन्वितः ॥ १ ॥ उपदेशं विनाऽप्यर्थकामौ प्रतिपदुर्जनाः । धर्म्मस्तु न विना शास्त्रादिति तत्रादरो हितः ॥ २ ॥ | पापामयौषधं शास्त्रं शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं शास्त्रं सर्वार्थसाधकम् ॥ ३ ॥" तथा " प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" इति हिंसा हेतोः । स्वरूपस्य च निर्देशः " यदस्ति दुःखं त्रैलोक्ये व्याधितश्चाधितस्तथा । तद्भिः
सर्वधर्म
स्थानस्यसारत्वम
हिंसायाः
॥ १४८ ॥