________________
काभ्यां द्वाभ्यां पृथर विधिप्रतिषेधौ कृतौ लाभस्य, एकेनैकस्य लाभोऽन्यस्य चान्येन प्रतिषेधो भणित इत्यर्थः । प्रेषितं वाचकेन देशान्तरे मलयविषयादी निजभाण्डम् । संवृत्तश्च भूयान् लाभः । समागता च तत्र लाभवातौ । ततः कोपस्तु असंतोषः पुनरितरस्याप्रहितभाण्डस्य बभूव ज्योतिपिकं प्रति ॥ १८१॥
ततःमा रूस णत्थि एत्थं आगमणं सत्थघायनासो त्ति । तुट्ठनिवेयणमम्हे सवत्थणुबंधसार त्ति ॥ १८२ ॥ ET मा रूसेत्यादि । ज्योतिषिकः प्राह (ग्रन्थ ५०००) मा रुष्य मां प्रति, यतो नास्ति न विद्यतेऽत्र नगरे आगमनं
करकृत्तस्य । कुत इति चेदुच्यते-'सत्थघातनासत्ति' इति । सार्थस्य पथि समागच्छतश्चोरैर्घातेन करकृत्तस्य नाशो भविष्यतीति हेतोः। ततः कालेन तथैव संवृत्ते सति 'तुट्ठनिवेयणं'ति तुष्टस्य निजभाण्डोपघाताभावेन वणिजो निवेदनं कृतं ज्योतिपिकेण, यथा वयमनुवन्धसारा वर्तामह इति, अमुना प्रकारेण निरनुवन्धकार्यस्य तत्त्वतोऽकार्यत्वात् ॥१८२॥ __ इत्थं प्रसझाद् बुद्धिगुणांस्तज्ज्ञातानि चाभिधाय साम्प्रतं 'बुद्धिजुओ आलोयइ' इत्यादिगाथोक्कमर्थं विशेषतो भावयितुमिच्छुरवगतविपक्षोऽन्वयः सुगमो भवतीति तद्विपक्षमेवाश्रित्य तावदाह;धम्मट्ठाणमहिंसा सारो एसोत्ति उज्जमति एत्तो । सवपरिचाएणं एगो इह लोगनीतीए ॥ १८३॥ धर्मस्थानं धर्मस्य दुर्गतिप्रवृत्तजन्तुवारनिवारणकरणप्रवणस्य जीवपरिणतिविशेषरूपस्य स्थान विशेपोऽहिंसा सर्व
26- RSS