________________
श्रीउपदेशपदे
॥ १४७ ॥
अणुबंधं च निरूवइ पगिट्ठफलसाहगं इमो चेव । एत्थंपि वणियपुच्छिय जोइसियदुगं उदाहरणं॥१८०॥
‘अनुबंधं’ चेत्यादि । अनुवन्धं चानुगमनमपि च निरूपयति गवेषते, न केवलं सम्यग् आरभते । कीदृशमित्याहप्रकृष्टफलसाधकं, आनुषङ्गिकफलत्यागेन लब्धुमिष्टसर्वान्तिमफलनिष्पादकं पलालादिपरित्यागेन कृषौ धान्याप्तिसमा - नम्, अयमेव बुद्धिमान् जनः, प्रधानफलस्यैव फलत्वात् । यथोक्तं - " फलं प्रधानमेवाहुर्नानुषङ्गिकमित्यपि । पलालादिपरित्यागात् कृषौ धान्याप्तिवद् बुधाः ॥ १ ॥” इति ॥ अत्राप्यनुबन्धनिरूपणे वणिक्पृष्टज्योतिषिकद्विकं वणिग्भ्यां द्वाभ्यां पृष्टं तथाविधव्यवहारारम्भकाले यज्ज्योतिषिकद्वयं यद्दैवज्ञयुगं तदुदाहरणं दृष्टान्तः । न केवलं सम्यगारम्भे धनवणिगुक्तरूप इति ॥ १८० ॥ एतदेवाह :
करकट्टलाभपुच्छा जोतिसियदुगम्मि दुण्हवणियाण । विहिपडिसेहा लाहो वत्ता कोवो उ इयरस्स १८१
करो राजदेयो भागः शुल्कमित्यर्थः स कृत्तः छिन्नः पृथक् कृतो यस्मात् तद् भवति करकृत्तं करेण कृत्तं 'कृती वेष्टने' इति वचनाद् वेष्टितमुपरुद्धमवश्यदेयत्वात् तस्य, तच्च व्यवहारप्रयुक्तं धनधान्यादि तस्माल्लाभोऽपूर्वधनागमः, तस्य पृच्छा प्रवृत्ता, कचिद् नगरे ज्योतिषिकद्विके द्वयोज्योतिषिकयोः समीप इत्यर्थः । द्वयोर्वणिजोरावयोरस्मिन् देशान्तरव्यवहारे निरूप्यमाणे किं लाभः समस्ति नवा इति पृच्छा एकैकस्य ज्योतिषिकस्यैकैकेन कृतेत्यर्थः । तत्र ज्योतिषि -
प्रकृष्टफलसाधने अ
नुवन्धमुख्यता
॥ १४७ ॥