________________
जन्मान्तरोपात्तमिष्टानिष्टफलदं कर्म सर्वजगद्वैचित्र्यकारणमिति कर्मवादिनः । तथा चाहुः ; - "यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्यमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता प्रदीपहस्तेव मतिः प्रवर्त्तते ॥ १ ॥ " असदेतत्, कुलालादेर्घटादिकारणत्वेनाध्यक्षतः प्रतीयमानस्य परिहारेणापरादृष्टकारणप्रकल्पनयाऽनवस्थाप्रसङ्गतः क्वचिदपि | कारण प्रतिनियमानुपपत्तेः । न च स्वतन्त्रं कर्म जगद्वैचित्र्यकारणमुपपद्यते, तस्य कर्त्रधीनत्वात् । न चैकस्वभावात् ततो जगदुद्वैचित्र्यमुपपत्तिमत्, कारणवैचित्र्यमन्तरेण कार्यवैचित्र्यायोगात् । अनेकस्वभावत्वे च कर्मणो नाममात्रनिबन्धनैव विप्रतिपत्तिः, पुरुष - काल - स्वभावादेरपि जगदुद्वैचित्र्यकारणत्वेनार्थतोऽभ्युपगमात् । इति कर्मैकान्तवादोऽपि न विचारसः ॥ ४ ॥
अन्ये तु वर्णयन्ति-पुरुष एवैकः सकललोकस्थितिसर्गप्रलयहेतुः प्रलयेऽप्यलुप्तज्ञानातिशयः । तथा चोकं " ऊर्णनाम इवांशूनां चन्द्रकान्त इवाम्भसां । प्ररोहाणामिव लक्षः स हेतुः सर्वजन्मनाम् ॥ १ ॥” इति ॥ एतदपि न घटते, यतः प्रेक्षा पूर्वकारिणां प्रवृत्तिः प्रयोजनवत्तया व्याप्ता, अतः किं प्रयोजनमुद्दिश्यायं जगत्करणे प्रवर्त्तते १ नेश्वरादिप्रेरणात्, अस्वातन्त्र्यप्रसक्तेः; न परानुग्रहार्थम्, अनुकम्पया दुःखितसत्त्वनिर्वर्त्तनानुपपत्तेः । न तत्कर्मप्रक्षयार्थ, दुःखित| सत्त्वनिर्माणे प्रवृत्तेस्तत्कर्मणोऽपि तत्कृतत्वेन तत्प्रक्षयार्थ तनिर्माणप्रवृत्तावप्रेक्षापूर्व कारितापत्तेः । इति नैतद्वादोऽपि विदुषां मनोमोदावहः ॥ ५ ॥
अतो न कालाकान्ताः प्रमाणतः सम्भवन्तीति तद्वादो मिथ्यावाद इति । त एवान्योऽन्यसव्यपेक्षा नित्याद्येकान्त