________________
-CA
श्रीरच कुतश्चिद् भेदाभ्युपगमेऽनित्यत्वमित्युक्तम् । तत्र च प्रभवस्थितिनाशेषु यद्यपरः कालः कारणम् , तदा तत्रापि स एव & कालादिशपदे पर्यनुयोग इत्यनवस्थानाद् न वर्षादिकार्योत्पत्तिः स्यात् । न चैकस्य कारणत्वं युक्तं, क्रमयोगपद्याभ्यां तद्विरोधात् । तन्न
कारणस्यकाल एवैकः कारणं जगतः॥१॥
सभ्य० ॥१४॥ 5 अपरे तु स्वभावत एव भावा जायन्त इति वर्णयन्ति । अत्र यदि स्वभावकारणा भावा इति तेषामभ्युपगमः, तदा मिथ्यात्व
स्वात्मनि क्रियाविरोधो दोषः । नात्युत्पन्नानां तेषां स्वभावः समस्ति । उत्पन्नानां तु स्वभावसंगतावपि प्राक्स्वभावाड- भेदप्र. स भावेऽप्युत्पत्तेनिवृत्तत्वाद् न स्वभावस्तत्र कारणं भवेत् । अथवा कारणमन्तरेण भावा भवन्ति स्वपरकारणनिमित्तज
न्मनिरपेक्षतया सर्वहेतुनिराशंसस्वभावा भावा इति शब्दार्थः । तर्हि प्रत्यक्षविरोधो दोषः। तथा हि-अध्यक्षानुपलम्भाद भ्यामन्वयव्यतिरेकतो बीजादिकं तत्कारणत्वेन निश्चितमेव । यस्य हि यस्मिन् सत्येव भावः, यस्य च विकाराद् यस्य विकारः, तत्तस्य कारणत्वमुच्यते । उच्छ्रनादिविशिष्टावस्थाप्राप्तं च बीजं कण्टकादितैक्षण्यादेरन्वयव्यतिरेकवदध्यक्षानुपलम्भाभ्यां कारणतया निश्चितमिति न स्वभावकान्तवादोऽपि ज्यायान् ॥२॥ __सर्वस्य वस्तुनस्तथा तथा नियतरूपेण भवनादु नियतिरेव कारणमिति केचित् । तदुक्तं;-"प्राप्तव्यो नियतिबलाश्रयण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने नाभाव्यं भवति न भाविनोऽस्ति | नाशः॥१॥" असदेतत्, शास्त्रोपदेशचयर्थ्यप्रसक्तः, तदुपदेशमन्तरेणाप्यर्थेषु नियतिकृतबुद्धेनियत्यैव भावात् । दृष्टा
॥१४ ॥ दृष्टफलशास्त्रप्रतिपादितशुभाशुभक्रियाफलनियमाभावश्च स्यात् । इति केवलनियतिवादोऽपि न श्रेयान् ॥३॥