________________
लितः तेन युतम् । सर्वेषामपि भव्यानां तथाभव्यत्वमस्त्येव, परं तथाविधपुरुपकारविकलं न प्रकृतकर्मपरिणामहेतुतया
सम्पद्यत इति प्रस्तुतविशेषणोपादानं कृतमिति ॥ १३॥ Fi ननु कथमित्थं अनेककारणा बुद्धिर्जाता इत्याशङ्कय सर्वमेव कार्यमनेककालादिकारणजन्यमिति दर्शयन्नाह;
कालो सहावनियई पुवकयं पुरिसकारणेगंता। मिच्छत्तं ते चेव उ समासओ होति सम्मत्तं ॥ १६४॥ | कालस्वभावनियतिपूर्वकृतपुरुषकारणरूपा एकान्ताः सर्वेऽप्येकका मिथ्यात्वं तत एव समुदिताः परस्परात्यजदत्तयः सम्यक्त्वरूपतां प्रतिपद्यन्ते । इति गाथातात्पर्यार्थः॥ | तत्र काल एव एकान्तेन जगतः कारणमिति कालवादिनः प्राहुः। तथाहि;-सर्वस्य शीतोष्णवर्षवनस्पतिपुरुपादेर्ज-18 गतः प्रभवस्थितिविनाशेषु ग्रहोपरागयुतियुद्धोदयास्तमयगमनागमनादौ च कालः कारणम्, तमन्तरेण सर्वस्यास्यान्यकारणत्वाभिमतभावसद्भावेऽप्यभावात् । तदुक्तं-"कालः पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागति कालो हि दुरतिक्रमः॥१॥" असदेतत् , तत्कालसद्भावेऽपि वृष्ट्यादेः कदाचिददर्शनात् । न च तदभवनमपि तद्विशे-16 पकृतमेव, नित्यकरूपतया तस्य विशेषाभावात् । विशेपे वा तज्जननाजननस्वभावतया तस्य नित्यत्वव्यतिक्रमात्,स्वभावभेदाद् भेदसिद्धेः । न च वायुमण्डलादिकृतो वर्षादिविशेषः, तस्याप्यहेतुकतया भावात् । न च काल एव तस्य
राश्रयदोपप्रसक्तेः-सति कालभेदे वर्षादिभेदहेतोहमण्डलादेर्भेदः, तभेदाच्च कालभेद इति परिस्फुटमि-IG तरेतराश्रयत्यम् । अन्यतः कारणाद् वर्षादिभेदेऽभ्युपगम्यमाने न काल एवैकः कारणं भवेदित्यभ्युपगमविरोधः, कालस्य
วันวิจัง 55555555555555