________________
श्रीउपदेशपदे
॥ १३९ ॥
चेति समुच्चये, बहुमानतश्चिन्तारत्वकामदुघादिवस्तुभ्योऽपि समधिकादुपादेयतापरिणामात् । चकारोऽवधारणार्थो भिन्नक्रमश्च । ततः एतेषामेव बुद्धिमतां तथा अप्रद्वेषप्रशंसात इति अप्रद्वेषाद् अमत्सराद् ईर्ष्यापरिहारलक्षणात्, प्रशंसातश्च अहो धन्याः पुण्यभाज एते ये एवं पुष्कलमतिपरीततया स्वपरोपकारपरा वर्त्तन्त इति बुद्धिर्जायते इति प्रक्रमः । ननु बुद्धिमद्विषया भक्त्यादयोऽपि कथमाविर्भवन्तीत्याहः -- एतेषामपि भक्त्यादीनां कारणं हेतुर्वर्त्तते इति जानीहि सम वबुध्यस्व भो भोः ! अन्तेवासिन् ! ॥ १६२ ॥
के इत्याह
कल्लाणमित्तजोगो एयाणमिमस्स कम्मपरिणामो । अणहो तहभवत्तं तस्सवि तहपुरिसकारजुयं ॥ १६३ ॥
कल्याणमित्रयोगः स्वपरयोः सर्वदा श्रेयस्कराणां सुहृदां साधुसाधर्मिकस्वरूपाणां योगः सम्बन्धः, तत्सम्बन्धस्य सर्वानुचितनिरोधेन उचितप्रवृत्त्यसाधारणकारणत्वाद् एतेषां भव्यानाम् । ननु कल्याणमित्रयोगोऽपि किंहेतुक इत्याशंक्याह- अस्य कल्याणमित्रयोगस्य कारणं कर्मपरिणामः भवान्तरोपात्तदैवपरिणतिरूपः, अनघः पुण्यानुबन्धित्वेन सुवर्णघटाकारतया निर्दोषः । नहि अनीदृशकर्मणो जन्तवः कल्याणमित्रयोगवन्तो जायन्त इति । एषोऽपि किंनिबन्धन इत्याह- तथाभव्यत्वं तस्यापि अनघकर्मपरिणामस्य कारणं भव्यत्वं नाम सिद्धिगमनयोग्यत्वं अनादिः पारिणामिको भावः । तथाभव्यत्वं तु एतद् एव विचित्रं द्रव्यक्षेत्रादिभेदेन जीवानां बीजाधानादिहेतुः । कीदृशमित्याह - तथापुरुषकारयुतं तथा तत्प्रकारोऽनन्तरपरंपरादिभेदभाक् फलहेतुर्यः पुरुषकारो जीववीर्योल्लासरूपञ्चरमपुद्गलपरावर्त्तवशसमुन्मी
बुद्धिवृद्धपाया
न्तरम्
॥ १३९ ॥