________________
• म. २४
अथ बुद्धिवक्तव्यतामुपसंहरन्ने तज्ज्ञानश्रवणफलमाह;
कयमेत्थ पसंगेणं एमादि सुणंतगाण पाएणं । भव्वाण णिउणबुद्धी जायति सव्वत्थ फलसारा ॥ १६९ ॥
कृतं पर्याप्तमत्र ज्ञातनिर्देशे प्रसङ्गेनातिप्रपञ्चभणनलक्षणेन, अनाद्यनन्तकाले भूतभवद्भविष्यतां प्रस्तुतबुद्धिज्ञातानामानन्त्येन ज्ञातुं वक्तुं वा अशक्यत्वात् । प्रतिबुद्धेरेकैकज्ञातभणनेऽपि प्रस्तुतबोधसम्भवात् किं ज्ञातभूयस्त्वमित्याशकाह; - ' एमाइ'त्ति एवमादि निर्दिष्टज्ञातमुख्यं वुद्धिज्ञातजातमन्यदपि शृण्वतां सम्यग् आकर्णयतां सतां प्रायेण वाहु| त्येन भव्यानां रक्तद्विष्टत्वादिदोषवर्जितत्वेन श्रवणयोग्यानां जीवानाम् । किमित्याह - निपुणवुद्धिर्जिज्ञासितवस्तुगर्भग्राहकत्वेन निपुणा सूक्ष्मा मतिर्जायते समुल्लसति सर्वत्र धर्मार्थादौ फलसाराऽवश्यम्भाविसमीहितफललाभसुन्दरा । प्रायो| ग्रहणं निकाचितज्ञानावरणादिकर्मणां मापतुपादीनामेतच्छ्रवणेऽपि तथाविधबुद्ध्युद्भवाभावेन मा भूद् व्यभिचार इति । परमेतज्जिज्ञासापि महाफलैब, यथोक्तं, "जिज्ञासायामपि ह्यत्र किंचित् कर्म निवर्त्तते । नाक्षीणपाप एकान्तात् प्राप्नोति कुशठां धियम् ॥ १ ॥” ॥ १६१ ॥
उपायान्तरमपि बुद्धिवृद्धाववन्ध्यं समस्तीति ज्ञापयन्नाह ;--
भत्तीए बुद्धिमंताण तहय बहुमाणओ य एएसिं । अपओसयसंसाओ एयाण वि कारणं जाण ॥ १६२ ॥ भक्त्या उचितान्नपानादिसम्पादनपादधावन ग्लानावस्थाप्रतिजागरणादिरूपया बुद्धिमतां प्रस्तुतबुद्धिधनानां, तथा