________________
श्रीउपदेॠपदे
॥ १४२ ॥
मित्राणि को देशः कौ व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ १ ॥” इति । अनुचितारम्भस्य निष्फलत्वेन चित्तविषादाद्यनेकानर्थसार्थप्रदानप्रत्यलत्वात् अनुबन्धं चैवानुबन्धमपि च तादात्विककार्यसिद्धावप्युत्तरोत्तरफलरूपं यत्नेन महता आदरेण आलोचयतीति । यतः - " सगुणमपगुणं वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ १ ॥” इति ॥ १६७ ॥ | बुज्झति य जहाविसयं सम्मं सवंति एत्थुदाहरणं । वेदज्झयणपरिच्छाबडुगदुगं छागघातम्मि ॥१६८॥ _बुध्यते निर्णयति । चः समुच्चये । ततो न केवलमालोचयति, बुध्यते च यथाविषयं वोद्धुमिष्टवस्त्वंशरूपविषयानतिक्रमेण सम्यक् संशयविपर्यासबोधदोषपरिहाराद् ऐदम्पर्यशुद्धं सर्वं धर्मार्थादिवस्तु । इति वाक्यपरिसमाप्तौ । अत्र सम्यग् यथाविषयबोधे तद्विपर्यये चोदाहरणं ज्ञातं वेदाध्ययनपरीक्षा बटुकद्विकं - वेदाध्ययने उपस्थिते उपाध्यायेन परीक्षायां astrat यथावद् बोद्धा तदितरो वेतिरूपायां मीमांसायां प्रक्रान्तायां समादिष्टं बटुकद्विकं पर्वतकनारदलक्षणम् ; केत्याह —- छागघाते पशुवधे ॥ १६८ ॥
एतदेव भावयन्नाहः -
'वेयरहस्तपरिच्छा जोगच्छाग त्ति तत्थ हंतो । जत्थ ण पासति कोई गुरुआणा एत्थ जतितव्वं ॥ १६९॥ एगेणमप्पसारियदेसे वावादितो पयत्तेण । अन्नेण उ पडिसेहो गुरुवयणत्थो त्ति नेव हतो ॥ १७० ॥
बुधकर्त
व्यप्र०
तत्रान्वयव्यतिरे०
ह०
॥ १४२ ॥